________________
कुट्टनीमतम्
बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् । ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ।। ५५२ ।। अयि सरले तावदिमा उपदेशगिरो वसन्ति कर्णान्तः । यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ।। ५५३ ।।
श्रीरस्तु दुर्गतिर्वा, वेश्मनि वासो भवत्वरण्ये वा । स्वर्लोके नरके वा, किंबहुना, तेन मे सार्धम् ॥ ५५४ ॥
१६५
पंराजितम् । ] गाणिक्यं गणिकासमूह:, [ "गणिकायाश्च यञ् वाच्यः" इति वार्तिकात् (४|२| ४०) || अनेन अहमेव वारमुख्या जाता इत्यभिप्राय: ॥ गर्वभावलक्षणं तु- "ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिनाऽन्येषामवज्ञा गर्व ईरितः ॥” (२/२३) इति रसार्णवसुधाकरे । प्रकृते रूपतारुण्याभ्यां स: कामुकः सर्वातिशायी, तादृशलाभेन च स्वस्याः सौभाग्योत्कर्ष:, तन्मूलकश्च गर्वः ॥ ५५९ ॥ [ अप्रस्तुतप्रशंसामुखेन तुल्यावस्थमधुकरीदृष्टांतव्याजेन स्वस्याः दैववशात् उत्कृष्टं सौभाग्यमाह बहु इति । मधुकरी मधुमक्षिका, मधुकर इति विटस्यापि वाच्यत्वात् मधुकरीशब्दसामर्थ्यात् तस्या लम्पटता सूचिता, रसग्रहणाय नानाकुसुमान् संभुञ्जाना अपि, विधे: ब्रह्मण: नियतेर्वा, नियोगात् प्रेरणात्, ईदृशं अवर्णनीयं लोकोत्तरं इति यावत्, ] प्रसवविशेषः कुसुमविशेष:, [ "प्रसवो गर्भमोक्षे स्याद्वृक्षाणां फलपुष्पयोः । परंपराप्रसंगे च लोकोत्पादे च पुत्रयोः ॥ " इति विश्वलोचने, ] रूपणेन पुरुषविशेषश्च [ तं, " येन सा कृतकृत्या कृतार्था प्राप्तप्राप्तव्या, भवति । अत्र अप्रस्तुतकुसुममधुकरवृत्तान्तेन प्रस्तुतनायिकानायकयोः सम्बन्धविशेषः प्रतीयते ॥ मधुकरीव ' इति ' ईदृक्पुरुषविशेषं ' इति च पाठे उपमा, सा च न अप्रस्तुतार्थप्रशंसावत् प्रकृताभिप्रायव्यञ्जिका ॥ ] ५५२ ॥ [ अयि इति कोमलामन्त्रणे । सरले यतः तत्त्वमनवबुध्यैव प्रलपनशीला ततः तथासम्बुद्धिः । इमाः त्वया उद्गीर्यमाणा:, अत्र तु अनुक्ताः उपदेशगिरः " गणिकायाश्च यं प्रति सजतैव न सङ्गः, सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः ।" (द० कु० २ ) इत्यादिप्रकारा: । ] अन्तर्भूतं विलीनं, [ द्रवीभूत्वा एकतां गतम् । यावत् हृदयैक्यं न जातं तावत् इत्यर्थः ॥ ५५३ ॥ बहुना उक्तेन किम् ? श्री: धना
८
,
५५२ मधुकरीव विधियोगात् - ईदृक्पुरुषविशेषं ( का ) ५५३ अपि ( प ) । कर्णान्तम् (प) ५५४ महत्यरण्ये ( गो . प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com