________________
१६२
दामोदरगुप्तविरचितं नो धनलाभो लाभो लाभः खलु वल्लभेन संयोगः । अक्षिगतादाप्तिन भवति मनसः प्रसादाय ॥ ५४७ ॥ गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।
न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥५४८॥ मध्ये मात्रा मिथ्यावच:कलहरूपोपदेशकुलकस्य पतितत्वात् इदं मिथ्यावच:कलहं अन्तः. कलकम् ॥ एवं कामुकावर्जनप्रकारोपदेशाधिकारे प्रथमं ५२० आर्यामारभ्य ५२७ आर्यान्तं ईर्ष्यामानग्रहणं उपदिश्य, तत: ५४५ आर्या यावत् तदर्थमेव स्वस्याः धनहानिप्रकाशिकां मिथ्यावच:कलहधाटी प्रदर्य, अनन्तरं ५५५ आर्यान्तं यावत् अपरकुलकेन तद्वैपरीत्येन धनलाभनिःस्पृहताप्रकाशनप्रयोज्यां अर्थरसगी वाक्यावलिमनुवदति आर्येत्यादिना । प्रकारान्तरेण तु–अर्थग्रहणैककुशलानां वेश्यानां दानोपायासंभवात् ईर्ष्यामानग्रहणेन "दण्डस्त्वविनयादीनां दृष्टया श्रुत्याऽथ तर्जनम् । इति दण्डप्रयोगः उपदिष्टः; ततः मिथ्यावचःकलहस्वरूपेण "भेदस्तु कपटालापैः सुहृदां भेदकल्पना ।" इति भेदप्रयोगः कथितः; इदानीं शेषे ॥ तत्र सामप्रियं वाक्यं स्वानुवृत्तिप्रकाशकम् ।" इति लक्षिते सामप्रयोगे उपयोज्यं वाक्यप्रकारमनुवदति आर्येत्यादिना ॥ ] [वेश्यानामर्थकमनस्कत्वेऽपि कामुकविनोदादिकमेव स्वस्या बहुमतं इति प्रत्याययितुं ] आर्यजनेत्याद्या नायकप्रतारणोक्तियुक्तयो मातरं प्रति [कामुकश्राव्यं ] प्रयोक्तुं सूचिताः । [ आयें: अभ्यहितैः । पाप एव एकः मुख्यः प्रधानः रसः शृङ्गारादिवत् स्वाद्यः यासां तासां पापकर्मसु एव निरतानां वेश्यानाम् । अभीष्टेन कामुकेन सह समागम: संयोगः । निरावरण: केनापि प्रतिबन्धेन अविहतः, यथा स्वीयानां गुरुजनसानिध्यादिभिः, परकीयानां च पतिभयादिभिः ॥ अत्र सामान्यात्वस्य दोषत्वेऽपि तत्रैव गुणदर्शनात् अनुज्ञालङ्कारो व्यङ्ग्यः, तल्लक्षणं, तु-" दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ।" इति कुवलयानन्दे ॥ ५४६॥ ] धनलाभो न लाभः लाभानुरूपमुखजनकः इत्यर्थः । अक्षिगतः द्वेष्यः, “ द्वेष्ये त्वक्षिगतः । " इत्यमरः । [ अपि च कामुकात् या द्रव्यप्राप्तिः सा तु न अन्वर्थो लाभः, अपि तु प्रियेण एव कामुकेन समागमः । खलु निश्चये । नात्र अपह्नुतिरलंकारः, अनारोपेण भूतार्थकथनात् ॥ एतदेव व्यतिरेकेण समर्थयति । यत इति शेषः, सर्वानुभूतिविषयं इदं यत् स्नेहाभाजनेन प्रदत्तं बहु अपि द्रव्यं मनसः प्रसन्नतायै न भवति, प्रत्युत प्रीतिपात्रात् प्राप्तं अल्पमपि बहुमतं भवतीति इति भावः । पूर्वाधं परिसंख्यालंकारः, समग्रे काव्यलिङ्गं अलंकारः, "समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्।" इति कुवलयानन्दीयलक्षणात् ॥ ] ५४७ ॥ [ गाढानुरागेण
५४७ वल्लभेन संसर्गः (प) ५४८ तारुण्यसुखामृतेन (गो. का.) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com