________________
१६०
दामोदरगुप्तविरचितं
पुंस्त्वाख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी । अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थमनपेक्ष्य ॥ ५४१ ॥ वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।
प्रत्याख्यातः स तथा रविदेवः किङ्करत्वमाकाङ्क्षन् ॥ ५४२ ॥ किं कन्दर्पकुटुम्बे जातोऽसावुत वशीकरणयोगम् | जानाति कमपि सिद्धं येनाकृष्टाऽसि सर्वभावेन ।। ५४३ ॥
प्राप्तस्य धनस्य, चतुर्थमपि भागं कररूपं राजभागं, राजा, ] कुतः परिश्रमेण इत्यर्थः, [यद्वा कुतो लभेत काक्वा नैव लभते इत्यर्थः । हट्टपतिः - हट्टः आपणः विक्रेयबस्तुशाला, तेषां पतिः; राज्ञा तद्वयवहारिभिः वा नियुक्तः अध्यक्षः -पण्याध्यक्षः वणिश्रेष्ठः ॥ अयं ‘ अधिकरणवान्' ॥ ५४० ॥ प्रभुस्वामी एतन्नामा, न स्त्री न पुमान् अर्थात् नपुंसकः षण्ढः, किल प्रसिद्ध, तथापि वेश्यानुसरणेन स्वस्य पुंस्त्वप्रकाशनेच्छां स्वस्य संभोगशक्तिं प्रतिपिपादयिषुः, अनुबध्नन् प्रसादाय प्रयतमानः, त्वया उपहसितः त्वं किं करिष्यसि इत्यादि उपहासयुक्तसंभाषणेन लज्जां प्रापितः । जडे मूर्खे युक्तायुक्तविचारशून्ये, यतः तादृशाचरणेन स्वार्थभ्रंश एव फलित इति । अयं ' पण्डकः पुंशब्दार्थी ' ॥ ५४१ ॥ वाजीकरणं वाजिवत् अश्ववत् अत्यर्थसुरतक्षमत्वापादकद्रव्यौषधादि; यद्वा वाजः शुक्रं तदस्यास्तीति वाजी वाजीक्रियते पुरुषः येन तत् वाजीकरणम्, तथा चोक्तं चरके—“ येन नारीषु सामर्थ्य वाजिवल्लभते नरः । येन चाभ्यधिकं बीजं वाजीकरणमेव तत् " ॥ इति । तस्मिन् तत्सेवने इति यावत्, एका मुख्या, मतिः यस्य सः, चिकित्साशास्त्रोक्तवाजीकरणप्रयोगाणां ज्ञाता अनुष्ठाता च, अत एव तरुणीकाम्यः इति सूचनं; अपि च नरनाथः नृपतिः, तस्य अनुग्रहेण कृपया, विख्यातः प्रसिद्धः, नृपवल्लभोऽयं इति सुप्रसिद्धः; अनेन तस्य धनाढ्यत्वं राजमण्डलानुकूल्यं च सूचितम् । तादृशोऽपि मद्रूपपरिलुब्धः मम किङ्करत्वं दासत्वं आकाङ्क्षन् वाच्छन् स त्वया, तथा तत्प्रकारेण यद्वा चार्थे, प्रत्याख्यात: तिरस्कृतः । अहो ते मौढ्यं इति भाव: । अयं 'राजनि सिद्ध:' || आभिः चतुर्दशभिः आर्याभि: 'माणिक्यपरिहारेण गैरिकपरिग्रहतुल्यं ' ते वर्तनं इति उद्घुष्टम् ॥ ५४२ ॥ . एवं स्वकामुकस्य ईर्ष्यासंधुक्षणद्वारा रागसंवर्धनार्थं प्रकृतकामुकार्थं अन्यानेककामुकानामनादरो मातृकृत इति दर्शयन्ती मातरं अधिक्षिप्य प्रकृतनायकस्योपरि तदीयपक्षपाते कारण कल्पना पूर्वकं
,
५४० तमुप० ( प ) ५४१ जड: ( गो. का ) ५४३ योगात् - कामप्यवैति सिद्धिं ( गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com