________________
कुट्टनीमतम्
ग्रामोत्पत्तिरशेषा प्रविशन्ती सिंहराजविनियोगात् । मन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥ ५३७॥ आस्तामपरो लाभो भट्टाधिपनन्दिसेनतनयेन । शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥ ५३८ ॥ पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन । कारितमनङ्गदेव्या विभूषणं पत्तनस्य सकलस्य ॥ ५३९ ॥ आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।
हट्टपतिरामसेनप्रसादतो नर्मदा यमुपभुते ॥ ५४०॥ सूचनं, प्रकृतकामुके इति प्रकाशं, तच्च वक्रोक्त्या । मधुसूदनस्य पुत्रेण दत्तं आभरणं बिभ्राणां चन्द्रवतीं पश्यन्ती त्वं किं न हीता असि इत्यन्वयः । ] हीता लजिता ॥ [अत्र कामुकः 'स्वतंत्रः' ॥५३६॥ सिंहराजः कश्चित् ग्रामपतिः । ] विनियोगः समर्पणम् । [आवासं गृहम् । ते तव, रूपसौभाग्यं रूपेण मत्संबन्धिरूपेण यत् सौभाग्यं सुभगत्वं तत्।] ['ग्रामोत्पत्तिमशेषां पश्यन्ती' इति पाठे] लघयतीति-त्वं केवलं पश्यन्ती किमपि कर्तुमसमर्था विलोकयन्ती एव तिष्ठसि, यद्वस्तु ते स्वरूपं संपत्तिगर्व लघूकरोति इत्यर्थः ॥ [अत्र कामुकः 'संतताय:' ॥] ५३७ ॥ उपचारः सेवा । [ तेन पर्याप्तं तावतैव अलं, नायकेन तस्यै उपचारमात्रनिमित्तेन यत् दीयते तदेव तावत् प्रभूतं, अतः उपचारव्यतिरिक्तस्य लाभस्य वार्ता तु दुनिरूपा इत्याशयः । शिवदेवीसौभाग्यमुद्दिश्य सासूयोक्तिरियम् । ' हेडावुकनन्दिषेण ' इति पाठे हेडावुकः हेडाबुक्को वा अश्वविक्रेता । अयं वित्तावमानी, ' पाठान्तरे तु 'सुभगमानी।] ॥ ५३८ ॥ [ धवलगृहं सौधम् । पाशुपताचार्यः—पशुः संसारबद्धः जीवः, तेषां पति: नियन्ता ईश्वरो वा पशुपतिः शिवः, तं अधिकृत्य प्रवृत्तं दर्शनं पाशुपतं शैवशास्त्रं, तस्य आचार्य: तन्मन्त्ररहस्यसिद्धान्ताद्युपदेष्टा पाशुपताचार्यः । भावशुद्धः एतन्नामा, अत्र भावः पण्डितार्थवाचकः शैवाचार्याणां मानद उपाधिः, यथा न्यायभूषणकर्ता भाव-सर्वज्ञः, सप्तपदा टीकाकृत् भाव-विद्येश्वरः इत्यादिषु । यद्यपि मूलपाशुपतदर्शने न कोऽपि भ्रष्टाचारावकाशः, तथापि समयबलात् अन्यत्र इव तत्रापि कथंचिदाचार्यपदं गुरुपदं वा प्राप्तः पतितैः कुगुरुभिः केचन अनाचाराः दृढं दत्तहस्तावलम्बा जाताः, अत एव मत्तविलासप्रहसनादिषु तत्तच्चरितानामुपहासः। पत्तनं पट्टनं वा नगरी राजधानी ॥ 'अयं लिङ्गी ॥ ५३९ ॥ आपणिकः क्रयविक्रयकर्ता वणिक, तस्य अर्थस्य लाभरूपेण
५३७ ग्रामोत्पत्तिमशेषां पश्यन्ती सिंह. (गो. का)। वासे (गो. का) ५३८ हेडा. वुकनंदिशेन (प) नन्दिषेण (गो. कापा)। क्रियते यत्नेन (गो. का) ५३९ देव्या आभरणं (4)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com