________________
कुट्टनीमतम् । अगणितराजापायोऽविच्छिन्नायः स्वभावतस्त्यागी । किमुपेक्षितोऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥ ५३१ ॥ पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य । द्रविणवतः प्रभुरातो निराकृतो भूरिकामया सोऽपि ॥ ५३२ ॥ स्वकरेण परित्यक्ता त्वया विभूतिः करोमि कि पापा।
सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ ५३३ ॥ रक्तः अतः सुसाध्यः, मां अविगणय्य मम मतं अगृहीत्वैव, मूढे अल्पमते, त्वया निर्भसितः तिरस्कृतः॥ अयं 'स्वभावतस्त्यागी'।]५३०॥ [अगणितराजापाय: अधिकशुल्कादिग्रहणे उत्कोचादिग्रहणे वा तुच्छीकृतराजदण्डादिभयः, तत्र निर्भयः निःशंको वा; अविच्छिन्नः धारावाही, ] आयः द्रव्यादेः लाभ: [ यस्य सः । एवं न केवलं धनहानिभयवर्जितः अपि तु मयि अनुरक्तः प्रीतिमान् , अत एव अवश्यंदाता, किं किमर्थ, त्वया वामधिया विपरीतमत्या सत्या, यद्वा वामा प्रतीपा च सा धीश्च वामधी: तया मूर्खतया, उपेक्षितः अनादृतः, शौल्किकाध्यक्षः रक्षानिर्देशो राजभाग: ‘शुल्कः ' 'दाण' इति भाषायां, 'जगात ' इति पारसीकभाषायां च प्रसिद्धः; शुल्के तदादाने नियुक्ताः शौल्किकाः, " तत्र नियुक्ताः” (पा. ५।४।६९) इति ठक् , तेषां अध्यक्षः अधिपतिः, । 'शौण्डिकाध्यक्षः' इति पाठे सुराध्यक्षः, यः सुराकिण्वव्यवहारान् पश्यति सः, पानागारावेक्षकः ॥ अयं बहुगुणः ‘राजनि महामात्रे वा सिद्धः,' 'संततायः, 'स्वभावतस्त्यागी,' ' अधिकरणवान् । च ॥५३१ ॥ चतुर्थवयः बाल्यकौमारयौवनवार्द्धक्यरूपेषु चतुर्षु चतुर्थ वयो यस्य सः वृद्धः; न केवलं वृद्धस्य अपि तु गदाभिभूतस्य रोगाक्रान्तस्य, अतः मरणोन्मुखस्य इति अभिप्रायः; एक एव पुत्रः, तेन अतिवत्सलः अप्रतिषेध्यतदीययावत्कृत्यः इत्यभिप्रायः । भूरिकामया वर्तमानकामुकादेव बहुधनलाभदुराशया ॥ अयं 'एकपुत्रः ॥ ५३२ ॥ सर्वभरेण सर्वेषां अन्नवस्त्रालंकारधनादीनां भरेण अतिशयेन समृद्धया, उपनतं संगतं, अत एव सार्थनामानं वसुदेवं, अनादरेण पश्यन्त्या उपेक्षयन्त्या, त्वया मात्रीभूतया, स्वकरेण इति लोकोक्तिः स्वयमेव इत्यर्थः, विभूति: समृद्धिः, परित्यक्ता हस्तच्योतिता, अतः अस्मिन् विषये, अहं पापा इति लोकोक्तिः नैराश्यमूलकस्वधिक्कारे, दुर्भाग्या इत्यर्थः, किं करोमि । "स्वयंकृतापराधोऽयं तत्र का परिदेवना ।" इति भावः ॥ "पापे' इति पाठे मातुः प्रमादेन स्वस्या भूरिवसुलाभहान्या तस्याः क्रोधमाश्रित्य संबोधनम् || अयं 'सवित्त:'
५३१ स्वकरेण परित्यक्तो वामधिया शौण्डिकाध्यक्षः (गो. का) ५३२ तृतीयवयसो (का)। प्रभुरात्तो (प)। ° तोऽभूतिकामया (प)[दुरर्थः पाठः] ५३३ पापे (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com