________________
दामोदरगुप्तविरचितं कञ्चकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्थम् । साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ २३ ॥ परिहासेन गृहीता यद्यंशुकपल्लवे त्वया रामा ।
आच्छिद्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥ ५२४ ॥ विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् ।
नृत्यन्ती मृगदेवीं विस्फारितलोचनः पश्यन् ॥ ५२५ ॥ क्षितुं तव दर्शनार्थ, तथागमने ताम्बूलदानं शिष्टाचार इति उचितम् । अनुबध्य विशेषतः,[ वारंवारं; ताम्बूलं न च याचितः देहि इति न तया प्रार्थितः । त्वया तु तां आकारयित्वा ताम्बूलं दत्तं, तत् किमर्थ किं प्रयोजनं उद्दिश्य, तत् वद वाचा प्रकाशय । ताम्बूलदानं अभियोगसूचकं इति ईर्ष्याबीजं, यथाह वात्स्यायन: पारदारिकाधिकरणे"क्रमेण च विविक्तदेशे गमनं चुम्बनं आलिङ्गनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेति अभियोगाः। (५॥२) इति । अत्र दर्शनालापाभ्यां अधिकपरिचयदर्शनात् मध्यम ईर्ष्यामानः ।] ५२२ ॥ [ कञ्चकं चोली स्त्रीणां कुचादिगोपनवस्र, अपकर्षन्त्याः उत्तारयन्त्याः , प्रकटीभवत् चक्षुर्गोचरं भवत् , असौ भुजशिरसी च कक्षौ बाहुमूले 'काख' इति भाषायां च, कुचौ च पार्श्वे कक्षाधोभागौ च अंसकक्षकुचपार्श्व, प्राण्यङ्गत्वात् एकवद्भावः । साभिनिवेशं आसक्त्या, किं किमर्थम् । तस्याः सौन्दर्येण अपहृतचित्तस्त्वं मयि न्यूनप्रेमा इति भावः । अत्र दर्शनेामानो लघुः। ] ५२३ ॥ [रामाभिधानायाः चेलाञ्चलग्रह: त्वया यदि परिहासार्थ कृत: तर्हि, पृष्ठतः पृष्ठे, सार्वविभक्तिकस्तसिः , स्थितां मां दृष्ट्वा, किं किमर्थ, आच्छिद्य स्ववनाकर्षणेन विश्लेषं कृत्वा, सहसा तत्कालमेव, “तत्कालमात्रे सहसा सहसाऽऽकस्मिकेऽपि च ।" इति विश्वलोचने । अपक्रान्ता निर्गता । युवयोः प्रेमपरिचयं दृष्टा कोपिष्यामि इत्येव अवधार्य इति भावः । अयं चेष्टामानो मध्यमः ॥ ५२४ ॥ नृत्यन्ती अङ्गप्रत्यङ्गसौष्ठवप्रकाशकं नृत्यं कुर्वन्तीम् । विस्फारितलोचनः विकसितनेत्र: सन् येन सुष्ठु दर्शनं भवेत् तथा, अनिशं निरन्तरं, पश्यन् , विज्ञानं कार्मणं-औषधमन्त्रादियौगैः उच्चाटनादि षट्कर्म, "विज्ञानं कार्मणे ज्ञाने" इति विश्वलोचने, तेन विज्ञानेन ख्यातां वशीकरणादिकर्मपाण्डित्येन प्रसिद्धां, वर्णयसि उद्योजयसि मृगदेवीवशीकाराय-इत्यतः अनु
५२३ कमाकर्ष० (प)। दंगकुच (गो. का) दंसकुच (कापा)५२४ त्वया बाला (१)। आच्छोट्यापकान्ता मामवलोक्य (प) क्रान्ता त्वामव ( गो. का.)५२५ त्वं नु (१)[अक्षरसंभ्रमात् पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com