________________
कुट्टनीमतम्
मालत्या सह किश्चिदभिदधासि सखी ममेति न विरोधः यत्तु चिरं स्निग्धशा पश्यसि तां तत्र मे शङ्का ॥ २१ ॥ त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।
आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥ ५२२ ॥ वर्धयितुं सप्तभिः मानसूचकसेयोक्तिप्रकारं शिक्षयति अवलोकित इत्यादिना । तदुक्तं शङ्गारतिलके-"स्नेहं (हो?) विना भयं न स्यान्मन्मथो नेय॑या विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रीतिप्रवर्धनः ॥" (२।५३ ) इति । ईय॑या सहिता उपन्यासाः सेोयन्यासाः ईर्ष्यामानोद्भवाः उक्तयः; तथाहि—विप्रलंभशंगारस्य पूर्वानुराग-मान-प्रवास-करुणभेदेन चतुर्धा विभक्तस्य मध्ये यो मानविप्रलंभ: स सहेतुको निर्हेतुकश्चेति द्विप्रकारकः; तत्राद्यः ईर्ष्यामानसंज्ञकः अन्यनायिकास्निग्धदर्शनपरनायकदर्शनात् प्रत्यक्षात्, नायकस्य भोगचिह्नदर्शनेन गोत्रस्खलनश्रवणेन उत्स्वप्नायितश्रवणेन वा अनुमानात् , नायिकाया जायते । तदुक्तं रसाणवसुधाकरे-"ईjया संभवेदीर्ध्या त्वन्यासङ्गिनि वल्लभे । (२।२०३ ) असहिष्णुत्वमेव स्यादृष्टेरनुमिते: श्रुतेः ॥” इति । तत्र प्रथमो लघुमानः, दर्शनमात्रमतिक्रम्य वार्तालापादेः अनुरागवृद्धिसूचकतत्तच्चेष्टानां वा दर्शने मध्यमो मानः, शेषो गुरुर्मानः, तदुक्तं शृंगारतिलके“स प्रायशो भवेत्रेधा कामिनीनां प्रियं प्रति । अवेक्ष्य दोषमेतस्य गरीयान्मध्यमो लघुः।। (२१३३ ); प्रतिनार्या(?) गते कान्ते स्वयं दृष्टे नखाङ्किते । तद्वासोदर्शने गोत्रस्खलिते च गुरुर्यथा ॥ ( २१३४ ); दृष्टे प्रियतमे रागादन्यया सह जल्पति । सख्याऽऽख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥ (२।३५); सविलासं स्फुरच्चक्षुर्वीक्षमाणे परां प्रिये । किंचिदन्यमनस्केव जायते स लघुर्यथा ॥” (२३६) इति । लम्पट कामुक । निभृतं गुप्तं, परेषामविदितं स्यात् तथा; 'नियतं' इति पाठे नियमेन वारं. वारम् । धात्री उपमाता, "धात्री त्वामलकीक्षित्योरुपमातरि मातरि ।" इति विश्वलोचने । ] जालमार्गेण लघुवातायनद्वारा, [गवाक्षेण । अत्र अन्यालापदर्शनजो मध्यम ईर्ष्यामानः । ] ५२० ॥ [ पुनश्च-किञ्चित् अल्पं, अभिदधासि वदसि, तत्र सा मम सखी इति हेतोः न मे विरोधः त्वया सह कलहः । चिरं दीर्घकालं, स्निग्धदृशा स्निग्धदृष्टि: पूर्व (आ. ५०७ टी.) व्याख्याता तया पश्यसि स्निग्धायाः दृष्टे: अविच्छेदपातं करोषि, इति दर्शनस्य अविश्रांततया औत्सुक्यापरिसमाप्तिः प्रकाशिता; तत्र तस्मिन् तव तादृशदर्शनकर्मणि, शङ्का वितर्कः तव तया सह संगमाभिलाषो वर्तते इत्यादिरूपा, " शंका वितर्कभययोः " इति वैजयंती । अत्र लघुः ईर्ष्यामानः ।] ५२१॥ [त्वां वी
५२१ किञ्चिद्विदधासि (गो.) केलिं विदधासि (प) सखे (गो.का)। दृगापश्यसि (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com