________________
कुट्टनीमतम् ।
अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् । मदनजनितोऽनुरागो न विदध्याद्यदि बलाधानम् ॥ ५१५ ॥ धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसंप्राप्त्या । शशिना वियुज्यमाना कुमुदिनि किं क्षीणपुण्याऽसि ॥५१६ ॥ विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।
न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्गयाः ॥५१७॥ निशे सङ्गमे ते प्रभातम् ॥” इति । ] ५१४ ॥ [ इतः त्रिभिः प्रस्तुतं समर्थयति । तत्रादौ स्वस्या: मदनावेशरागं नायकरतिशक्तिप्रशंसागर्भ आह अबलेति । न विद्यते बलं वीर्य यस्याः सा-अबला, तादृशां अतिसुकुमाराणां स्वाङ्गानामपि धारणे अशक्ता इव दृश्यमाना, कथं बलिनः पुरुषस्य रतावेगं सहेत, यदि तस्यां कामजः प्रेमा बलं न संचारयेत् इत्यर्थः । अबलाः शङ्गाररसेन सबला भवन्तीति भावः । उक्तं च अमरुकशतके "शूरोऽस्ति ('नन्वस्ति' ) पुङ्खितशरो मदन: सहायः।" इति । ॥ ५१५ ।। अत्र अप्रस्तुतचक्रवाकीकुमुदिन्यवस्थाकथनेन दिवसे प्राप्तविरहायाः स्वस्याः अधन्यत्वं सूचयति धन्येति । धन्या प्रशंसनीया, चक्राह्वः रथाङ्गनामा यामिनीविरही पक्षी, तद्वधू: चक्रवाकी 'चकवी ' इति प्रसिद्धा । संघटनं संयोगः । रात्रौ चक्राह्वयोः वियोगः दिवसे तत्संयोगश्च प्रसिद्धः , तद्विपर्ययेण रात्रौ शशिसंयोगेन कुमुदिन्या विकसनं, प्रातस्तद्वियोगेन च मुकुलितत्वं प्रसिद्धम् । क्षीणपुण्या यतः प्रियवियोगविपत्तिमती । किं प्रश्ने । अप्रस्तुतप्रशंसालंकारः। ५१६॥ विकसितेति । [विकसितंच सुरभि च मनोहरं च संस्थानं अवयवसंनिवेश: यस्य तत् । आदौ आस्वादितं पश्चात् विच्युतं भ्रष्टं आस्वादितविच्युतम् । अतः आरूढपतितसत्पुरुषसदृशं,] विकसितं सुरभि सुगन्धं मनोहरसंस्थानं सुस्थि(ति)मदपि अप्राप्तं कुसुमं कर्तृ गीं न तथा पीडयति यथा आस्वादितं अनन्तरमेव विच्युतं कुसुमं पीडां करोति । प्राप्तहानितोऽप्राप्तिरेव श्लाघ्या इत्यर्थः, ["नहि वन्ध्याऽश्नुते दुःखं यथा हि मृतपुत्रिणी।” इति न्यायेन । उक्तं च-"न तथा बाधते कृष्ण प्रकृत्या निर्धनो जनः । यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः॥" इति । उक्तं च-" अकृतस्नेहोऽपि वरं न पुनः संजातविघटितस्नेहः । उज्झितनयनस्ताम्यति तथा यथेहो न जात्यंधः ॥" इति । रविगुप्तेनापि-" अकृतप्रेमैव वरं, न __ ५१५ अवशा ( कापा)। ममुष्य (गो. का ) । जनितानुरागो ( गो ) तुलितानु० (गो २. का) ५१६ चकाङ्क (गो २.)। चक्राह्ववधूप्रिय० (का) । संघटन (का) ५१७ स्थानं कुसुम० (गो. का)। विच्युतिं (गो २. का)। भृङ्गम् (गो) भंगः (गो २. का) (अनर्थकः पाठः)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com