________________
दामोदरगुप्तविरचितं
विघटितविनिमुद्रदृशा विलोक्य ककुभः सुदीघनिःश्वासम् ।
वक्तव्यमिति भवत्या 'रजनि खले किं प्रभाताऽसि ॥५१४ ॥ रणं यस्य तं, निशापगमे प्रभाते, त्वया, किञ्चित् अल्पमात्रया प्रकटीकृतौ प्रदर्शितौ क्लमः सन्ताप: ग्लानि: व्यापारासहः अवसादश्च सुरतश्रमभरात् यया तया, तथा उत्पादितजम्भिकया कृत: गात्रविनाम: निद्रात्यागसूचकः मुखविकासादिरूपः शरीरविन्यासविशेषः यया तया । “जंभिका गात्रभंग: स्यात् " इति अजयः, स्त्रीजम्भणे केशविश्लथनं बाहुमूलवक्षोदर्शनं नीविलंसनादि च रसिकहृदयहारीणि भवन्तीति तत्करणोपदेशः । वर्णितं तदन्यैः यथा-"आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुच: क्षणद्युतिवदासजौ क्षिपन्ती भुजौ । विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यम किञ्चित्किञ्चिदुदञ्चदञ्चलमहो कुम्भस्तनी जम्भते ॥” इति । "चक्रीकृतभुजलतिकं वक्रीकृतमध्यमुन्नमद्ग्रीवम् । नो हरति कस्य हृदयं हरिणदृशो जम्भणारम्भः ॥ " इति च ॥ भिकायां सुदीर्धीकृतभुजयोः कर्कटो हस्तो भवति, यथोक्तं भारतीये-"अंगुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिःसृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ (९।१२६) एष मदनांगमर्दे सुप्तोत्थितज़ंभणे बृहद्देहे । अनुधारणे च योज्य: शंखग्रहणेऽथ तत्त्वज्ञैः ॥” (१२७) इति ॥ " मिथोऽन्तरा बहिश्चान्तर्भवत्यंगुलयो यदा। हस्तयोः, कर्कटः सोऽयं चिंताज़ंभणयोर्मतः ॥” इति च डुंगरराजालंकाररत्नाकरे ॥ अशिथिलं दृढं परिरभ्य आलिङ्ग्य, ॥ ५१३ ॥ ] विघटितविनिमुद्रदृशा उद्घाटितातन्द्रदृशा [ शीर्णमुद्रनयनेन] [उन्मीलितचक्षुषा ककुभः दिशः, विलोक्य अवलोक्य प्रभातं जातं न वा इति दर्शनार्थ, भवत्या सुदीर्घनिःश्वासं आयतमुखमारुतं, प्रातःकाल इति समुपस्थितविरहजदुःखं सूचयितुं तथाहि अहर्मुखं प्रत्यूषति रुजति कामुकान् इति 'प्रत्यूष' इत्यपि उच्यते, वक्तव्यं, किमिति तदाकारं आह-भोः रजनि रजन्ति अनुरक्ता भवन्ति रागिणः अस्यां इति साभिप्रायपदं रात्रे । खले इति रात्र्याः संबोधनं, खलति पापानि संचिनोति, चलति वा साधनां निग्रहाय सा खला पैशुन्यकृत् पापा, तस्याः संबुद्धिः खले पैशुन्यकारिणि-आदौ संयोगसुखं प्रदाय इदानीं प्रियविप्रयोगदुःखदायिनी इति । किं प्रभाता असि। प्रभातोऽपि क्वचित् निशाभागत्वेन गण्यते यथा “प्रभातशेषा रजनी बभूव । " इत्यत्र । अपि च रजनी प्रभाता जाता इति तस्याः स्वरूपविपर्ययेण खलत्वं उचितं, विरोधाभासोऽपि सूचितः ॥ तथाहि प्रार्थितं केनापि रसिकमित्रेण-" दूरारूढप्रणयमधुरप्रेमग क्तिभाजां, गाढाश्लेषव्यतिकरधृतैकात्म्यसंभावनानाम् । अव्युच्छिन्नाधरमधुरसासारके प्रार्थये त्वां, यूनां मा भूद्भगवति
५१४ विघटितपुटमुदितदृशावलोक्य (प)। प्रयातासि (प) (कुलकं ) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com