________________
कुट्टनीमतम् ।
तत्रादौ रागज्ञानं आह अन्तरिति । कुलटा-कुलात् कुलान्तरं व्यभिचारार्थ अटति गच्छति भ्रमति वा इति पांसुला असती व्यभिचारिणी-तासां अन्तःकरणस्य हृदयस्य, विकारं विविधां विरुद्धां वा कृतिं विकृति भावं इति यावत् , गुरवः श्वशुरादय: ज्यष्ठाः, परिजना नियतसंनिधिवर्तिनः सेवकादयः, तै: सङ्कटे संबाधे संकीर्णतायां अपि; तदभियुक्ताः तासु रक्ताः तत्कामुका इति यावत्, यद्वा तस्मिन् अभियुक्ताः तत्कोविदाः; तासां भ्रूभङ्गः आरेचितादिकं भ्रूचेष्टितं, तद्युक्तं अपाङ्गे नेत्रप्रान्ते, मधुरं मनोहारि, यत् दृष्टं दर्शनं तेन–सभ्रूविलासकटाक्षावलोकितेन, स्निग्धदृष्टिना इति यावत् । अत्र भ्रूभङ्ग इत्यनेन उत्क्षेपादिसप्तभ्रूकर्मसु चतुरं निकुञ्चितं वा भ्रूव्यापारः उद्दिष्टः; तल्लक्षणादिकं मरते यथा-"चतुरं किञ्चिदुच्छासान्मधुराश्रयता ध्रुवोः ॥ (८ । ११५) एकस्या उभयोर्वाऽपि मृदुभङ्गो निकुञ्चित: ।" इति । " शृङ्गारे ललिते सौम्ये स्पर्शे च चतुरं भवेत् ॥ (८ । १२०) मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते । निकुञ्चितं तु कर्तव्यम् ।" इति च ॥ अपाङ्गः अपाङ्गति तिर्यक् चलति नेत्रं यत्र स: नेत्रप्रान्तः । अपाङ्गदर्शनं कटाक्षः, " अपाङ्गे तारविक्षेपः कटाक्ष इति कथ्यते " इत्युक्तेः, (तारः तारा कनीनिका ।) तल्लक्षणं सङ्गीतरत्नाकरे-" यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकाया: कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥” (७ । ३८६) इति; अनेन कान्ताख्या शृङ्गाररसदृष्टिः लक्षिता, तथा च तत्रैव-"आपिबन्तीव दृश्यं या सविकासाऽतिनिर्मला । सभ्रक्षेपकटाक्षा सा कान्ता मन्मथवर्धिनी ॥" (७ । ३८५) इति; भरतोऽपि-"हर्ष. प्रसादजनितकोपामर्षसमन्मथा । सभ्रक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥" (८।४४) इति। यद्वा एतदृष्टिमूलभूता स्निग्धाख्या स्थायिदृष्टिः (स्थायिभावव्यञ्जिका दृष्टिः) उक्ता, तथा च संगीतरत्नाकरे-"विकासि(स?)स्निग्धा(ग्ध?)मधुरा चतुरे बिभ्रती ध्रुवौ। कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाऽभिधीयते ॥अत्रैकभ्रसमुत्क्षेपमाहुः कीर्तिधरादयः ॥"(७।३९८) इति; (अत्र चतुरे ध्रुवौ इति पूर्वोक्तचतुराख्यव्यापारविशेषवत्यौ ध्रुवौ।) एवं भरतोऽपि-"व्याकोशा स्नेहमधुरा स्मितपूर्वाऽभिलाषिणी । अपाङ्गभ्रूकृता दृष्टि: स्निग्धेयं रतिभावजा ॥” ( ८1५३ ) इति; (व्याकोशा प्रफुल्ला, समन्मथविकासा) ॥ जानन्ति अवगच्छन्ति ॥ यथोक्तं-"स्वभावमधुराः स्निग्धाः ('वक्राः') शंसंत्यो रागमुल्बणम् । दृशो दत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥" (काव्यादर्शे २।३१६ )इति । प्रकृतार्थिसदृशी कस्याश्चिदुक्तिरपि-" यद्यपि गुरुजनपुरतः सततं विनिवार्यते हिया चक्षुः । प्रियमुखदर्शनलुब्धं तदपि सलीलं बलाद्वलति ॥” इति ॥ " चक्षुःप्रीतिर्मनःसंगः " इत्यादिषोडशसंयोगशृंगाराणां मध्ये चक्षुःप्रीतेरेवाद्यत्वात् कटाक्षस्य अत्र ग्रहणम् ॥ मानसिको रतिभावः मधुरैःभाषणनेत्रादिविकाररूपवाक्कायव्यापारैः व्यङ्ग्य: अनपह्नव एव इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com