________________
दामोदरगुप्तविरचितं
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतरशक्तिः। स्फुटसन्निहितविभावो निवार्यते केन शृङ्गारः ॥५०६॥ अन्तःकरणविकारं गुरुपरिजनसङ्कटेऽपि कुलानाम् ।
जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ ५०७॥ [एवं पक्षण कादाचित्कीं रागप्रवृत्ति प्रतिष्ठाप्य, इत: षद्भिः वस्तुतः स्वीयादि-त्रिविधानामेव नायिकानां प्रवृत्तिः रागतन्त्रा एव इति वेश्यासु रागाभावशङ्का न कर्तव्येति व्यञ्जयन्ती प्रपञ्चयति उत्तमेत्यादिभिः । तत्रादौ रत्यात्मकस्य शृङ्गारस्य लोकसिद्धं अनपहोयत्वं अगोपनीयत्वं अप्रतिषेध्यत्वं वा अनुवदति उत्तमेति । उत्तमः तरुणः युवा उत्तमा तरुणी युवती च उत्तमतरुणौ, तो प्रकृतिः कारणं यस्य सः शृङ्गारः, एतेन जुगुप्सारहितत्वात् स: 'शुचिः' इत्यपि उच्यते । शृङ्गारलक्षणं च-" रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यसक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुरांगविचष्टितः ।" इति दशरूपके ( ४४८)। यथा वा काव्यालंकारे-“व्यवहारः पुनार्योरन्योन्यं रक्तयोः रतिप्रकृतिः। शृङ्गारः” (१२५) इति । तथा ] पुलक: रोमाञ्चः, [आदिना अन्ये स्तम्भादयः सप्त सात्त्विका भावा ग्राह्याः, तैः सूचिता व्यक्ताव्यकतया प्रकाशिता, अन्यतरा अपरा सामान्यव्यतिरिक्ता असामान्या इत्यर्थः, शक्तिः वीर्य प्रभावः यस्य सः; तथा स्फुटाः सुव्यक्ताः, संनिहिता समीपगा: न दूरवर्तिनः, विभावाः यस्य सः तादृशः, विभावास्तु विशेषेण भावयन्ति रसं उत्पादयन्ति येते, ते च आलम्बनाः उद्दीपनाः इति द्विविधाः, तत्र यमालम्ब्य रस उत्पद्यते स आलम्बनविभावः, यः रसं उद्दीपयति स उद्दीपनविभावः, प्रकृते नायकः नायिका च आलम्बनविभावौ, स्त्रीविलासचन्द्रोदयवसन्तर्तमद्यपाननृत्यादयः उद्दीपनविभावाः । तेषां अभावे दूरवर्तित्वे वा न शृङ्गाररसोत्पत्तिः, एतद्द्योतको स्फुटसंनिहितविशेषणौ । वादृशः शृङ्गार:-नवसु रसेषु शृङ्गं प्राधान्यं इयति गच्छति इति शृङ्गार: आद्यो रसः, ययोक्तं ध्वनिकारेण-" शृंगार एव ‘मधुरः' परप्रह्लादनो रसः । " (२८) इति, य: रतिस्थायिभावकः, कान्ताद्यालम्बनः, स्रक्चन्दनाद्युद्दीपितः, कटाक्षाद्यनुभावितः, व्रीडादिसञ्चारितश्च रसः; केन निवार्यते प्रतिषिध्यते, आक्षेपेण न केनापि तत्प्रकाशो बाध्य: इत्यर्थः । अतः स उच्चैः उत्कर्षण वा ज्वलति प्रकाशते इति 'उज्ज्वलः' इत्यपि उच्यते; तथा च अमर:-"शृङ्गारः शुचिरुज्ज्वल: ।" इति । ] ॥ ५०६ ॥ [स्त्रीपुंसरत्यात्मकस्य शंगारस्य प्राबल्यं विवृणोति अन्तःकरणेत्यादिभिः पञ्चभिः ।
५०६ तान्यतन(प) विचार्यते (५)(लिपिसंप्रमजोऽयं पाठः) ५०७ बुध्यन्ति तद. (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com