________________
कुट्टनीमतम् न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु । रागादयोऽपि सन्ति वैशिकशास्त्रमणेभिः कथिताः ॥ ५०४ ॥ का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या।
यद्विरहकुलिशभिन्ना मुमोच सा जीवितं क्षणार्धेन ॥ ५०५ ॥ निवारयति ये इति । ये जडाः अज्ञाः मूर्खाः, उक्तं च-" इष्टं वाऽनिष्टं वा सुखदुःखं वा (सुखमन्यद्वा?) न वेत्ति यो मोहात् । परवशगः स भवेदिह जडसंज्ञकः पुरुषः ॥" इति । विलासिनी-भ्रनेत्रचेष्टादीनां विशेषा: विलासाः, ते अस्याः सन्ति सा विलासिनी-प्रकृते वेश्या, तस्याः, श्लेषे सन्धाने संयोगे आलिङ्गने वा, द्रव्यनाशरूपं दोषंपश्यन्ति, यथोक्तं-"वेश्याऽसौ मदनज्वाला रूपेन्धनसमेधिता। कामिभिर्यत्र हूयन्ते यौव. नानि धनानि च ॥” इति, तथा " हारहीरकहिरण्यभूषणैस्तोषमेति गणिका धनैषिणी।" इति च । ते, भवता तत्त्वज्ञानार्थ इदं प्रष्टव्या:-किमित्यादि प्रश्नाकारः । ] कशिपु अन्नं आच्छादनं च, [ तस्य व्ययः क्षयः न कृतो याभिः तादृश्यः दाराः धर्मपत्नी, किमित्यादि काकुगर्भा उक्तिः, किम् इति आक्षेपगर्भ पदं, तेन तासु अपि धनक्षयो भवति एव इति प्राप्यते । अतः धनक्षयदोषः न गणिकां एव स्पृशति इति भावः ॥] ॥ ५०३ ॥ [एवं परहृदयरञ्जने अपररागस्य अकिञ्चित्करत्वेऽपि अपरस्य प्रवृत्ती क्वचित् लाभः क्वचित् रागो वा कारणं प्रसिद्धमेव इति निरूपयति न चेति । प्रवर्तनं तत्तत्कर्मसु प्रवृत्तिः । रागः अनुराग: प्रीति: आसक्तिः । वैशिकशास्त्रं वैशिकपुरुषसम्बद्धं शास्त्रं कामशास्रादि । तथाहि तं अधिकृत्य नाट्यशास्त्रे वैशिकाध्याय ( २३ ) भरत:" विशेषयेत्कलाः सर्वां यस्मात्तस्मात्तु वैशिकः । (२) वेश्योपचरणाद्वापि वैशिक: स उदाहृतः ॥ १॥ (३) यस्तुतौर्यक(कु)लोपेतः सर्वशिल्पप्रयोजकः । स्त्रीचित्तग्राहकश्चैव वैशिकः स भवेत्पुमान् ॥ २ ॥” इति । स च त्रयस्त्रिंशद्गुणोपेतः । वैशिकशास्त्रप्रणेतारः दत्तकविशाखिलवात्स्यायनादयः ॥ अत्र 'वैशेषिकशास्त्रवेदिभिः' इति पाठः अज्ञानकल्पितः अस्वच्छ: यतः प्रकृतानुपयोगी ॥ 'सन्ति च वैशिक०' इति पाठः मात्रासंपूरणार्थ भवितुं युक्तः ॥ ] ५०४॥ [ प्रस्तुते समनन्तरोक्तहारलतोपाख्यानवृत्तं एव दृष्टान्तेन अनुसंदधाति केति । वा वितर्के, “ वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे । समुच्चये च " इति मेदिनी । विभूतिः द्रव्यादिसम्पत्तिः । आप्ता त्वथैव उच्यतां इति शेषः ॥ ] तपस्विनी अनुकंप्या । [ यस्य विरह एव कुलिशं वज्रं, तेन भिन्ना विदारिता । ] ॥ ५०५ ॥
५०४ प्रवर्तते (प. का) तनाक्षरयोलिपिसंभ्रमादयं पाठ उत्पन्न इति भाति । वैशेषिकशास्त्रवेदिभिः (का. अपपाठः)। कथितं ( का पा) ५०५ मुमोच या (प. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com