________________
दामोदरगुप्तविरचितं
आहितमुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या । भावविहीनोऽपि नट: सामाजिकचित्तरञ्जनं कुरुते ॥ ५०२ ॥ येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।
प्रष्टव्यास्ते भवता किमकृतकशिपुन्यया दाराः॥ ५०३ ॥ त्कृतत्वात् यूनां कामोद्दीपनं कुर्वन्त्येव इति भावः । अत्र प्रेमरहितत्वेऽपि कोकिलादीनां युवसु तजनकत्वात् विभावनाच्छाया, एवं कार्यहेत्वोभिन्नदेशत्वेन असङ्गतिच्छायाऽपि ॥ ] ५०१ ॥ [ मनुष्येषु अपि इयमेव स्थितिः इति दर्शयितुं तदृष्टान्तमाह आहितेति । आदौ आहितः स्थापितः गृहीतः, पश्चात् मुक्त: दूरीकृतश्च, आहार्यः नेपथ्यजो विधिः येन सः,-आहितमुक्ताहार्यः । आहार्यः तु आङ्गिक-वाचिक-आहार्यसात्त्विकाख्येषु अभिनयेषु एकः, "आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः ।" (२१।३) इति भरतः; तन्नेपथ्यं तु चतुर्विधं पुस्तं अलंकारः अङ्गरचना सजीव इति भेदैः; तेषामपि बहव उपभेदा भारतीयनाट्यशास्त्रे ( २१ अ० ), तैः निर्वर्तितः वेशालंकारवनवर्णादिरचनः । सम्यक् यथातत्त्वं यथावस्तु, सकलस्य सम्पूर्णस्य अङ्गोपाङ्गोपेतस्य प्रयोगस्य अभिनयस्य निष्पत्त्या सिद्धया। भावविहीनः अनुरागरहितः । भावस्तु रसानुकूलः शरीरजो मानसो वा विकारः, स च बहुविध:, तेच रत्यादयः अष्ट स्थायिभावा:, निर्वेदादयः त्रयस्त्रिंशद् व्यभिचारिणः, स्तम्भादयः अष्ट सात्त्विकाः भावाः; तथा चोक्तं दशरूपके-" ये सत्त्वजाः स्थायिन एव चाष्टौ, त्रिंशत्रयो ये व्यभिचारिणश्च । एकोनपञ्चाशदमी हि भावा युक्त्या निबद्धाः परिपोषयन्ति ॥” इति । तेषु स्थायिभावा: रसोत्पादकत्वात् अन्यभावाश्रयत्वाच्च स्वामिन इव, अन्ये तु तत्परिजनतुल्याः ।। नटः रङ्गावतारी अनुकार्यानुकरणकर्ता, "नट इति धात्वर्थभूतं नाटयति लोकवृत्तान्तम् । रसभावसत्त्वयुक्तं यस्मात्तस्मानटो भवति ॥” (१) (३५ । २७) इति भरतः ॥ सामाजिकानां नाटयप्रेक्षकाणां, ते च " ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च । दैन्ये दीनत्वमायान्ति गुणग्रहणतत्पराः ॥ व्यक्तरोषानुरागाश्च ते नाट्ये प्रेक्षका मताः ॥” इति भरतेनोक्ताः, तेषां चित्तरञ्जनं मनोविनोदं कुरुते । स्वस्मिन् सामाजिकान् उद्दिश्य भावाभावेऽपि यथा नटः सामाजिकानां चित्तरञ्जनं आहार्याद्यभिनयैः कुरुते, तथा वेश्यायां रागाभावस्वीकारेऽपि सा विलासैः विदग्धान् रञ्जयत्येव इति भावः ॥] ५०२॥ [ एवं रागविषयकं विचारं प्रतिषिध्य तासां पूर्वोक्तं (४९८) लाभप्रवृत्तिदोषं
५०२ आहितयुक्तयाहार्यः (प) युक्ताहार्यः (कापा)। प्रयोगसंपत्त्या (गो. का) ५०३ दोषं प्रवदन्ति (१)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com