________________
कुट्टनीमतम्।
१४३
वलितप्लुतचित्रगतिस्थितिबोधैश्चोदनानुवृत्त्या च । रागस्पर्शेन विना विशति मनः सादिना तुरगः ॥ ५००॥ गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।
उज्ज्वलयन्त्यसमेषु विरुतविशेषैस्तथापि ते यूनाम् ॥ ५०१ ॥ बहुमतो भवति, तथैव तद्विज्ञा नायिकाऽपि तत्प्रयोगचातुर्यात् पुरुषाणां हृद्या पूज्या च भवतीति बोध्यम् ॥ ] ४९९ ॥ [ उक्ततत्त्वच नष्फल्यं समर्थयितुं, रागो वा लाभो वा प्रवृत्ती कारणं इति सामान्येन स्थितौ अपि, न किमपि तत्त्वत: वक्तुं शक्यते इति प्रतिपादयितुं, प्रथमं पूर्वोक्तस्य ( ४९८ ) सद्भावस्य रञ्जने अकारणत्वं, उत्तरोत्तरं पशुपक्षिमनुष्याणां त्रिभिः दृष्टान्तैदृढीकरोति वलितेति त्रिभिः आर्याभिः । रागस्पर्शेन विना स्वस्य रागरहितत्वेऽपि, च: त्वर्थकः, तुरग: तुरं त्वरितं गच्छतीति अश्वः, सादिनां अश्वारोहाणां, मनः विशति चित्तं गृह्णाति तद्रञ्जनं करोतीत्यर्थः । कथमित्याहचोदनानुवृत्त्या कशाताडनरश्मिचालनादिना यत् सादिकतृकं चोदनं प्रेरणा, तस्य अनुवृत्त्या अनुसरणेन, वल्गितादिगतिविशेषानां, स्थितेः अवस्थानस्य च, बोधः ज्ञान:कार्यकारणयोरभेदेन कार्ये कारणोपचारेण वा तत्तद्बोधपूर्वककृतिभिः इत्यर्थः ॥ वल्गितादयः अश्वानां गतिविशेषाः, तत्र वल्गितं वेगेन विक्षिप्तोपरिचरणं गमनम् । प्लुतं तु पञ्चसु धारासंज्ञकेषु अश्वगतिविशेषेषु एकं, तत्तु “ पूर्वापरोन्नमनतः क्रमादारोहणं प्लुतम् । इति-" त्वरया साम्येन (झम्पेन ?) गतिः प्लुतं, प्लवते: क्तः, 'पर' इति ख्यातम् ।" इति अमरटीकायां सर्वानन्दः, “ प्लुतं तु लंघनं पक्षिमृगगत्यनुहारकम् ।" इति हैमः, शशगतिवत् तत् ; " चतुष्पादा प्लुता स्मृता " इति अश्ववैद्यके ; इयं पुला-पुलका-पुलना-प्लुतादिनामभिः ख्याता । तल्लक्षणं तु हयलीलावत्या-प्लुलां प्लवगितामाहुर्या धारा पुलनाभिधा॥क्षिपति समविशेषानुक्षिपत्यग्रपादान्, प्रसरति पुरतोऽश्वः साऽथ धारा पुलाख्या ॥" इति । चित्रं तु विलक्षणं मनोहारि गमनम् ॥ ] ५०० ॥ [ अपरं पक्षिविषयकं दृष्टान्तमाह गन्ध इति । गग्धः लेशः, ॥ गन्धो गन्धकसम्बन्धलेशेष्वामोदगर्वयोः।" इति विश्वलोचने । परभृतः परैः काकैः भृतः पुष्टः कोकिल:, गृहकपोतः गृहे पालितः कपोतः पारावतः 'पारेवा' 'कबुतर' वा इति लोके ख्यातः । उज्ज्वलयन्ति उद्दीपयन्ति । असमेषुः असमाः पञ्चत्वात् विषमसङ्ख्याका इषवः बाणा यस्य स: कामः । विरुतं कृजितम् । युवविषये रागाभावेऽपि परभृतादय: पक्षिणो विरुत: माधुर्यात् सादृश्येन वा स्मारितप्रियासी.
५०० स्मरवलितप्लुतचित्रगतिस्थितिवेगैः (प)। मिशिततसादिनां तुरगः (१)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com