________________
दामोदरगुप्तविरचितं
रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् । न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥ ४९९ ॥
समाप्य तच्छ्रवणजनितनायकभावं स्थूणानिखननन्यानेन दृढीकर्तुं तत्प्रयोज्यां वाचोयुक्ति विकराला मालतीं उपदिशति एवमित्यादि चतुर्दशभिरार्याभिः ।] [स्वार्थैकरता: स्वलाभैकदृष्टयः । व्यपेतसद्भावाः रागरहिता:, " कामिताख्येन भावेन भाव्यमानता भावः" इति जयमङ्गल:, स एव शोभन:-सद्भावः रागः । ] एवमित्यादि-एवमपि क्वचिदुपलब्धौ, प्रायस्ताः[वेश्या: ] स्वार्थंकप्रवणा: [ रागरहिताः ] एव भवन्ति इति स्वीक्रियतां नाम, तथापि [युष्माकं मनोरञ्जनैकार्थिनां पुरुषाणां तासां भावविहीनत्वेऽपि का हानिः, काक्वा] न हानिः [इति भावः] [ तत्र हेतुं दर्शयति अभिलषितविषयसिद्धेः इति; पुरुषाणां अभिलषित: इच्छाविषयीकृतः, य: विषयः सौन्दर्याापभोगः वरनीविलासादिजन्यविषयानन्दः वा, तस्य सिद्धेः प्राप्त्या, हेतौ पञ्चमी ॥ ] ४९८ ॥ [तदेव समर्थयति रमणेति । रमण: कामुकः, तस्य हृदयं चित्तं मनोगतभावः, तस्य अनुवर्तनं आनुकूल्येन स्वस्य प्रवर्तनं, तस्मिन् चतुराः प्रवीणाः; चतुःषष्टिकर्मकुशलाश्च, तासां तादृशीनां, यद्वा रमणहृदयानुवर्तने चतुराणि पेशलानि यानि चतुःषष्टिकर्माणि आलिंगनादीनि तेषु कुशलानां प्रवीणानां; पण्यवधूनां पण्येन मूल्येन लभ्या प्राप्या वधूः पत्नी पण्यवधूः गणिका, तासां, तत्त्वचर्चा-सा रागवती न वा, तत्स्नेहः परमार्थों माया वा, तत्प्रवृत्तिः रागात् वा लाभात् वा इत्यादीनां निर्णयपरा विचारणा सत्यत्वासत्यत्वविचारणा; विदग्धचेतांसि चतुरजनमनांसि, न स्पृशति; स्वरञ्जनैकदृष्टयः ते तत्साधनगुणौचित्यचिन्तापरायणा न भवन्तीति सर्वेषामनुभवगोचरमेव इति भावः ।। [चतुःषष्टिशब्देन कामसूत्रस्य अवयवभूताः कलेत्यपराख्याः गीताद्यंगविद्याः पाञ्चालिकी चापरा लक्ष्यते; प्रकृते तु कर्मेति विशेष्यपदेन पाञ्चालेन बाभ्रव्येण स्वप्रणीतकामशास्ने वात्स्यायनीये च सांप्रयोगिकाधिकरणे प्रपञ्चितानि सभेदानि आलिङ्गनादीनि ६४ कर्माणि रागसंदीपनानि बोध्यानि । तानि च पाश्चालिकी चतुःषष्टिः' इति प्रसिद्धानि ' नन्दिनी । इत्येकपदवाच्यानि च । यथाह वात्स्यायन:-" आलिङ्गन-चुम्बन-नखच्छेद्य-दशनच्छेद्य-संवेशन-सीत्कृत-पुरुषायितीपरिष्टकानामष्टानामष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ।" इति ( कामसूत्रे २।२) । तथा " नंदिनी सुभगा सिद्धा सुभगंकरणीति च । नारीप्रियेति चाचार्य: शास्त्रेष्वेषा निरुच्यते ॥ कन्याभिः परयोषिद्भिः गणिकाभिश्च भावतः । लक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ।" इति तत्रैव उद्धृतप्राचीन लोकानुसारेण यथा एतचतुःषधिविज्ञ: नारीणां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com