________________
दामोदरगुप्तविरचितं मन्येऽभीष्टवियोग निमेषमपि दुःसहं समवधार्य । हरिणा वक्षसि लक्ष्मीर्विधृता गौरी हरेण देहाचे ॥ ४८७ ।। अयि लोकपाल, सा भुवि ललामभूता, तया विना शून्यम् ।
विश्वमिति किं न चिन्तितमात्मस्थानं मियां नयता ॥ ४८८ ॥ च्छोऽध्यासितः ।" (अं.४) इति । (यद्यपि “जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः। इति अमरः, तथापि कच्छशब्द: नानाकोशानुसारेण समुद्रसरित्सरःपर्वतादीनां प्रान्तदेशे समीपभागे च वर्तते । प्रकृते गन्धमादनः हिमवत्पुरस्य ओषधिप्रस्थस्य उपवनं कैलासशिखरोद्देशवर्ति, तत्समीपस्थ: प्रदेश: गंधमादनकच्छः ।) महाभारते वनपर्वणि कार्तिकेयस्तवे (अ. २३२ ) अपि स्कन्दनामसु-" कामजित् कामदः कान्तः । (४॥ .. 'खचारी ब्रह्मचारी च । (८) इति । (कामजित् कामस्य मदनस्य जित् जेता ।।। " धन्यास्ते भुवि ये निवृत्तमदना धिग्दु:खितान्कामिनः । " इति भावः ॥ अप्रस्तुतप्रशंसालंकारः, अप्रस्तुतस्य कार्तिकेयस्य प्रशंसायाः प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे अरागिणि पर्यवसनात् । यद्वा प्रियाप्रेमामृताप्राप्तिरूपदोषस्य तद्विरहजनितदुःखाभूमित्वव्यञ्जनेन गुणत्वकल्पनात् लेशालंकारो व्यङ्ग्यः॥] ४८६ ॥ [तं विहाय अन्येषां देवानां प्रियाविरहासहिष्णुतां पश्यति मन्ये इति । अभीष्टः प्रियतमः । निमेषं चक्षुषोः एकोन्मेषनिमेषकाल: लवद्वयम् । समवधार्य ऊहापोहेन अनुभवेन वा सम्यक् निश्चित्य ॥ स्वसदृशानां प्राकृतानां इत्थं विरहासहत्वे न किमपि आश्चर्यास्पदं इति अर्थात् आपद्यते।। हेतूत्प्रेक्षालंकारः, “ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ " ( काव्यादर्शे २।२३४ ) इति ॥ ] ४८७ ॥ [उपसंहरन् तस्याः जीवितहरं यमं उपालभते अयीति। लोकानां प्राणहरत्वे अन्तकत्वे वा कथं लोकपाल इति ते नाम इति सोल्लुण्ठनं सम्बोधनम् । लोकपालाः दश, प्राच्यादिदशदिग्रूपकन्यानां पतय: दिक्पालाः इति ख्याताः; ते च इन्द्रः, अग्निः, यमः, निर्ऋतिः, वरुणः, वायुः, कुबेरः, ईशानः, ब्रह्मा, शेषश्च इति; तेषु अन्यतमः ] लोकपालः दक्षिणदिक्पतिः यम:, [ यस्य देशं मृता: प्राणिनः तह्तै: नीयन्ते इति पुराणेषु प्रसिद्धम् , सोऽत्र सामान्योक्त्या लोकपाल इति सम्बोधितः । ललाम भूषणम् । " ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे । श्रेष्ठे भूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥” इति यादव: । तद्रहितं विश्वं शून्यं निर्जनं, तथाहि मालतीमाधवे-" असारं संसारं, परिमुषितरत्नं त्रिभुवनं, निरालोकं लोकं, मरणशरणं
४८७ दुःसहं समालोक्य (गो. का) ४८८ किं न शोचितमा० (१) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com