SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १३९ कुट्टनीमतम् । वर्ण्यः सद्वत एकत्रिपुरान्तकनन्दनो महासेनः । हृदयं यस्य स्पृष्टं न मनागपि वामलोचनामेम्णा ॥ ४८६ ॥ पातनात् , निरुक्तप्राभाण्मादयं धातुः इच्छार्थकः । अपवादः निन्दा, ] रूढः प्रसिद्धतमः [ लब्धप्रतिष्ठः; तथाहि-" एता हसन्ति च रुदन्ति च कार्य(वित्त) हेतोर्विश्वासयन्ति पुरुषं न च ('तु') विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना ('नघटिका') इव वर्जनीयाः ॥” (४ । १४ ) इति मृच्छकटिके, " हारिद्रद्रवसोदराय रसनामात्रोपरिस्थायिने सत्यादन्यतमाय वित्तहरणप्रत्यक्षचौराय च । चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥ " इत्यादि मुग्धोपदेशे, “ वाग्भिः प्रीतिकरैर्विलोकनशतैः, संतर्जनैः सस्मितैः, क्रोधेरौषधमंत्रतंत्रमणिभिः कृत्वा वशं नायकम् । हृत्वा तस्य समस्तवस्तुनिचयं, त्यक्त्वा तमन्यं शठं सेवन्ते धनिनं, वृथैव सततं वाराङ्गनाना रतिः ॥" (१। ६४) इति हरिहरकृतशृङ्गारदीपिकायां च । “ वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥” इति क्षे. मेन्द्रः; " कपटानुरागकौसीदिकः खलु वेश्याजनः, तथाहि -आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैरन्यान् विभ्रमकल्पनाभिरितरानंगैरनंगोज्ज्वलैः । आन्चारैश्चतुरैः परानभिनवैरन्यान् भ्रवः कंपनैस्त्थिं कांचन रंजयंति सुदृशो मन्ये मनस्त्वन्यथा ॥ " इति च वसंततिलकभाणे । असौ अपवादः, अपनीतः दूरोत्सारितः प्रमार्जितः, निपुणं अतिशयेन अत्यन्त, यथा मृच्छकटिके वसन्तसेनया । प्रिये प्रेमसर्वस्वपरमालंवनभूते, स्वजातिगुणरहितत्वात् साभिप्रायमिदं सम्बोधनं, जीवमोक्षेण पतिव्रताक्त्. प्राणपरित्यागेन ॥" कुटनीमते 'वञ्चकवृत्त्यो वेश्या: 'वृतेः 'इक् कृष्यादिभ्यः' इतीगन्तात् , यद्वा 'वञ्चकवृत्ता' इति पाठः।" इति (४।१।४५) दुर्घटवृत्तौ । ] ४८५ ॥ [एवं रागविहल: विपरीतधर्माणं प्रशंसति वर्ण्य इति । वर्ण्यः श्लाघनीयः कीर्तनीयचरितः, सदलः शोभनो नियमः यस्य सः, कनकरजतताम्रमय पुरत्रयस्य तदधिपतेः असुरस्य च अन्तकः नाशक:-त्रिपुरान्तकः शिवः, तस्य नन्दनः पुवः, महासेनः महती सेना देवानां सैनापत्याधिकारत्वात् यस्य सः ] महासेन: षडाननः [ कार्तिकेयः । मनाक् ईषत्. लेशमात्रं, अपि; वामलोचना वामे सुन्दरे लोचने यस्याः सा रमणी, तस्याः प्रेम्णा स्नेहेन न स्पृष्टं कामवशंवदो न जातः । तथाहि विक्रमोर्वशीयनाटके उर्वश्यु. क्तिः-"पुरा भगक्ता महासेनेन शाश्वतं कुमारव्रतं गृहीत्वा अकलुषो नाम गन्धमादनक ४८६ वन्यः सतत (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy