________________
१३४
दामोदरगुप्तविरचितं
वञ्चकत्ता वेश्या इत्यपवादो जनेषु यो रूढः | अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ।। ४८५ ॥
66
66
मृत्युं मुखेन वदन् तज्जातं अनिष्टं कथयन् शोचते नाकेति । न विद्यते अकं दुःखं यत्र सः नाकः स्वर्गः तस्य अधिपतिः इन्द्रः, तस्य पुरं अमरावती, तत्रत्याः स्त्रिय: अप्सरसः, ता: स्वरूपकलाविज्ञानादिभिः अभिभवितुं पराजेतुं, त्वयि दिवं स्वर्ग प्रयातायां आरूढायां, साम्प्रतं त्वया विना इदानीं, मदन: मन्मथः, सत्सु विद्यमानेषु अपि, पञ्चसु शरेषु बाणेषु, ते च - " अरविन्दमशोकं च चूतं च नक्मल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥ " इति, 66 यद्वा उन्मादनः तापनश्व शोषणः स्तंभनस्तथा । सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ " इति । यद्वा मतान्तरेण, “ द्रावणः क्षोभणश्चैव वशीकरण इत्यपि । आकर्षणश्च कामस्य बाणः सम्मोहनोऽपरः ॥ " इति । निरायुधः प्रहरणविहीनः जातः, यतः त्वत्सदृश्या अपराया अभावेन जगतः उन्मादादि जनयितुं स न प्रभविष्यति ॥ उक्तं हि जनार्दनमट्टेन शृङ्गारशतके – “ वेणी खजसमा, भ्रुवौ परिलसद्वाणासनाभे शुभे, कर्णौ पाशसम, तथा विजयते नासा च तूणोपमा । मुग्धेऽपाङ्गविलोकनं शरसमं, जाने ततस्त्वं कृता प्रायः पञ्चशराभिघक्षितिभुजा शस्त्रस्य शाला निजा ॥ " इति ॥ अत्र मूले विनोक्तिः अलंकार:, तल्लक्षणं तु - " विनोक्तिश्चेद्विना किञ्चित्प्रस्तुतं हीनमुच्यते । तच्चेत्किञ्चिद्दिना रम्यं विनोक्तिः साऽपि कथ्यते ॥ " इति कुवलयानन्दे; तन्मूलिका योगेऽपि मदनस्य आयुधायोगकल्पनात् असंबंधातिशयोक्तिः, शरेषु सत्सु अपि निरायुधः इति विरोघाभासश्च ॥ ] ४८४ ॥ [ एवं रूपादीन् प्रशंस्य तस्याः सुचरितं अपि श्लाघते वञ्चकेति । वञ्चकं त्रलं धौर्त्ययुक्तं वागादीनां अहृदयपूर्वकव्यापारवत्, अमनस्क - तया प्रवर्तितं वा वृत्तं चरितं यासां ताः वञ्चकवृत्ताः, वेश्या: “ वेशः भृतिः सोऽस्या जीवनं इति वेश्या ” इति दशरूपकावलोके ( ३।४२ ); यद्वा वेश: नेपथ्यं जीवनं यस्याः सा वेश्या; यद्वा " वेशो बलम् " इति "वेशन्त ०" ( पा० ४|४|१३ १) महाभाष्ये अस्य दिगादौ पाठात् 66 दिगादि ० " ( पा० ४ | ३ |५४ ) इति यत्, वेशे यूनां बले भषा स्थिता इत्यर्थः, तद्बलसहिता इति यावत्, यद्वा " तस्मै हितम् " ( पा० ५१११५ ) इति यत्, वेशाय यूनां बलाय हिंता इत्यर्थः - यद्वा " तत्र साधुः " ( पा० ४|४९८) इति यत्, बले साधुः इत्यर्थः,, - यद्वा " गोखचो ०" ( पा० ५ १/३९ ) इति यत्, वेशस्य निमित्तं संयोगः उत्पातो वा इत्यर्य:, - सर्वत्र ततष्टाप् ; यद्वा वेति इच्छति देहविक्रयेण घनादिकं इत्यर्थः, " अभ्या ०" ( उ० १ ३४) यक, गुणश्व नि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com