________________
कुट्टनीमतम्
ललितमनाथीभूतं, विहृतस्य गतिर्न विद्यते कापि । शशधर बिम्बद्युतिमुषि यातायामन्तकस्यान्तः || ४७९ ॥
१३१
उदाहरणत्वेन उद्धृतं तच्चिन्त्यम् । यत्तु सरस्वतीकण्ठाभरणे –“ केशस्तनाधरादीनां महादु:खेऽपि यत्पुनः । सुखाविष्करणं तन्व्यास्तच्च कुट्टमितं मतम् ॥ " इत्यलक्षि, तन्न रमणीयं, तथात्वे सुखस्य आभासत्वात् नीरसतापत्तेः ॥|| बिब्बोकः विव्वोक इत्यपि“इष्टेऽप्यनादरो गर्वान्मानाद्विव्वोक ईरितः । " इति रसार्णवसुधाकरे । गर्वाद्यथा"पुंसाऽनुनीता शतसामवादैर्हालां निरीहेव चुचुम्ब काचित् | अर्थानभीष्टानपि वामशीला: स्त्रियः परार्थानिव कल्पयन्ति " || इति ॥ एतद्विषये रसरत्नहारटीकायां शिवरामः" यत्तु माघ :- “ :- " किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्विकाय कश्चिद्विव्वोकैर्बक सहवासिनां परोक्षैः ॥ ' ( ८|२९ ) तन्न । विव्वोकस्य केवलं मुखवर्तित्वाभावात् । यत्त्वमरसिंह: - ' स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा । हेला लीलेत्यमी हावाः क्रियाः शृंगारभावजाः ||' इति तदपि न, आचार्यैः सर्वेषां भेदवर्णनात् || 'माघो बभ्राम विव्वोके तत्रैवामरनामकः । ताभ्यां समो मया दृष्टः श्रीहर्षः किलकिञ्चिते ॥ " इति । अत्र माघटीकायां मल्लिनाथेन " यद्यपि ( ' मनाक् प्रियकथालापे) विव्वोकोऽनादरक्रिया ' इत्युक्तं, तथापि विशेषवाचिनां सामान्ये लक्षणेति अदोषः ”। इति कथञ्चित् समाधानमुक्तम् ॥] ४७८ ॥ ललितं - " विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदाहृतम् " || इति रसार्णवसुधाकरे । तद्यथा दशरूपककर्तुः धनञ्जयस्य – “सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती, सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातैर्निः सङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी " ॥ इति । यथा वा - " कलक्कणितमेखलं चपलचारुनेत्राञ्चलं प्रसन्नमुखमण्डलं श्रवणसञ्चरत्कुण्डलम् । स्फुरत्पुलकबन्धुरं लपितशोभमानाधरं विहाररतिमन्दिरं व्रजति कस्य शातोदरी " ॥ इति । केचित्तु सातिशयं विलासमेव ललितं आहुः तन्न, विलासः प्रियायाः प्रियसन्निधौ एव, ललितं तु अन्यत्रापि इति भेदात् ॥ मूले अनाथीभूतं अस्वामिकं जातम् ॥ विहृतं - अस्य स्थाने विकृतं इति क्वचित् पाठः स प्रमादजः । तल्लक्षणं – “ हीमानेर्ष्णादिभिर्यत्र नोच्यते स्वविवक्षितम् । व्यज्यते चेष्टयैवेदं विहृतं तद्विदुर्बुधाः " ॥ इति उज्ज्वलनीलमणौ । तत् लज्जया यथा - " निरुद्धय यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने । मयि स्मिता वदनारविन्दं सा
४७९ स्य न विद्यते गतिः ( प ) । मुखि ( प. कापा ) ( अयं पाठः षखयोः संभ्रमेण लेखककृतः ) । यातायामन्तकस्यान्तिकम् ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com