________________
१३०
दामोदरगुप्तविरचितं
मावहति ॥ इति शाकुंतलटीकायां अभिरामः । “क्रोधश्रमत्रासहासशुष्करोदनसङ्करम् । अभीष्टसङ्गजाद्धर्षादुदेति किलकिञ्चितम् || " (७१) इति रसरत्नहारे । तद्यथा दानकेलिकौमुदीभाणिकायां-" अन्तः स्मेरतयोज्ज्वला जलकणव्याकीर्णपक्षमा
कुरा, किञ्चित्पाटलिताञ्चला रसिकतोसिक्ता पुरः कुञ्चती। रुद्धायाः पथि माधवेन मधुरव्याभुनतारोत्तरा रांधाया: किलकिञ्चितस्तबकिनी दृष्टि: श्रियं वः क्रियात् ॥" इति; (अत्र अन्तःस्मेरतया इति स्मितं, जलकणेति रुदितं, किञ्चित्पाटलिता इति क्रोधः, रसिकतोत्सित्ता इति अभिलाषः, पुरः कुञ्चती इति भयं, मधुरा इति गर्वः, व्याभुना इति असूया।) अपि च "यत्तु श्रीहर्ष:-त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल। तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ ' ( नैषध० २।४४) इति तन्न, सङ्गाभावात् ; भविष्यत्सामीप्ये वर्तमानवदिति वदसि चेत् दृष्टान्तानुपपत्तिः ॥” इति रसरत्नहारटीकायां शिवरामः ॥ मोट्टायितं—“तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ ॥ (७२) इति रसरत्नहारे। मुट् आक्षेपप्रमर्दनयोः, मुट् संचूर्णने वा, भावे घञ्, बाहुलकात् घनस्तुट् , ततो भृशादित्वात् क्यङ्, ततो भावेक्तः । विलासार्थे इदं देश्यं इति केचित् (३२७.टि.)। अपरे तु अङ्गप्रत्यङ्गानां मोटनात् मोट्टायितमित्याहुः । तद्यथा-"पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ ॥ इति कुमारसंभवे (७१९); ('मानापनोदनविनोदनते गिरीशे' शिरश्चन्द्रं अनेन चरणेन स्पृशेति भावः।) इदं पद्यं तु हेमचन्द्रेण विहृतस्योदाहरणत्वेन अवतारितम् ॥ कुट्टमितं 'कुट्टिमितं ' इत्यपि शब्द:, तलक्षणं- केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टिमितं हि तत् " ॥ इति रसार्णवसुधाकरे । तद्यथा-"करौद्धत्यं हन्त स्थगय कबरी मे विघटते, दुकूलं च न्यंञ्चत्यघहर तवास्तां विहसितम्। किमारब्धः कर्तुं त्वमनवसरे निर्दय मदात्, पताम्येषा पादे, वितर शयितुं मे क्षणमपि ” ॥ इति संभुक्ताया राधायाः पुनः संभोगारंभसरंभवंतं कृष्णं प्रति उक्तिः ॥ (अनवसरे संभोगसमयाप्राप्तौ अपि । ) यथा वा माघे"पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरूहारि शुष्करुदितं च सुखेऽपि॥"(१०।६९) इति। (अत्र कामिनः इत्यस्य पाणिरोधं भर्त्सनाश्च इत्यत्र, सुखेऽपि इत्यस्य पाणिरोधादित्रयेऽन्वयः। नीविबन्धविघट्टने इस्तरोधं, गाढालिंगने विमर्दै वा तर्जनाः, दन्तनखच्छेद्येषु प्रहणनेषु वा शुल्करुदितं-अनश्रुत्वात् कृत्रिमरोदनं कुरुते स्म । अत्र पाणिरोधादिविशेष्याणि कोपन्यज्ञकानि, अविरोधितवाञ्छादिविशेषणानि सुखव्यञ्जकानि इति) ॥ इदं पद्यं साहित्यर्पणे किलकिञ्चितस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com