________________
कुट्टनीमतम्।
१२३.
दुःसञ्चारा मागों दूरे वसतिर्विसंष्ठलं हृदयम् । गुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥ ४६४ ॥ हृदयद्वय एकत्वं याते यूनोवियोगजं क्लेशम् ।
अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥ ४६५ ॥ विषये, नाथ हे स्वामिन् मयि सर्वप्रकारेण स्वतन्त्र, वियोगखेदेन न तु प्रिय इति काकुः, मूर्ध्नि अञ्जलि: हस्तसंयोगः प्रणामः इति यावत्, विरचितः बद्धः; स च कोपोद्धतहदयनमनहेतुः सद्यःप्रसादनः ॥ अत्र असाधुशब्दानन्तरं क्वचित् 'यत्र । इति, प्रथममु. द्रितपुस्तके यन्न' इति च पाठौ ते लिखितप्राचीनपुस्तकीय ' त्त' अक्षरपाठसम्भ्रमण उद्भूतौ । ] ४६३ ॥ [ “ अतिस्नेहः पापशङ्की ।" ( शाकुंतले ४ ।) इति, " स्वगृहोद्यानगतेऽपि स्निग्धे पापं विशङ्कयते स्नेहात् ।" (नागानन्दे ५।१) इति (पापं व्यसनम् ), "प्रेम पश्यति भयान्यपदेऽपि । " (किरात. ९७०) इति च न्यायेन तस्य स्वगृहं प्रति प्रवासे विनापाताशङ्किनी तत्सहायं सम्बोधयति दुःसञ्चारा इति । दुःसञ्चारा: निम्नोन्नतत्वात् चौरसर्पादिभयेन वा विषमाः, मार्गाः पन्थानः; तत्रापि वसतिः स्वदेशः निवासस्थानं दूरे; तेन मे हृदयं ] विसंष्ठुलं भयाशङ्कि, [स्त्रीस्वभावत्वात् ; यद्वा तत्रापि प्रियतमस्य हृदय, विसंष्ठुलं नूतनविरहाघातने स्वस्थानाष्टं अव्यवस्थितं; इति कष्टपरम्परा, समुच्चयालंकारः । अप्रमत्तेन सावधानेन ॥ ] ४६४ ॥ [ कविः अत्रान्तरे कस्यचित्पथ्यापठनमाह हृदयेति । यूनोः हारलतासुन्दरसेनयोः द्वाभ्यां भिन्नाभ्यां हृदयाभ्यां स्नेहेन एकत्वं अद्वैतं प्राप्ते, पुनः तयोः दैववशात् प्राप्तात् वियोगात् जायमानं क्लेशं दुःखं अनुभवतोः सतोः, अपरेण केनचित् , प्रसङ्गतः स्वपाठप्रसङ्गेन निम्नोक्ता पथ्या आर्याछन्दोभेदः, तल्लक्षणं-"ओजे गणत्रयं पादे, द्वितीये तच्चतुष्टयम् । गुरुश्चतुर्थेऽपि तथा, किन्तु लोऽत्र तृतीयके ॥ विषमे जगणो नात्र, पथ्याऽऽर्या संप्रकीर्तिता ॥” इति मन्दारमरन्दचंप्वाम् । (ओजे विषमे प्रथमे तृतीये च पादे, गणः मात्रागणः । द्वितीये चतुर्थे च पादे गणचतुष्टयं गुरुश्च, किंतु अत्र चतुर्थे पादे तृतीयः गणः ल: लघुः एक एव । अतः चतुर्थपादे तृतीयगणस्य मात्रात्रयन्यूनत्वात् स पादः पञ्चदशमात्रात्मकः । विषमे विषमगणे प्रथमे तृतीये पञ्चमे सप्तमे च जगणो न भवति, इत्यर्थः ॥) अपि च पथ्या इति वाच्यबलेन हितावहोक्तिः इत्यपि सूच्यते । पठ्यते पठिता इत्यर्थः । इयमपि आर्या पथ्यैव, लक्षणसमन्वयात् । अत्र प्रस्तुतवर्णनपरेण पथ्यापदेन अस्या आर्यायाः पथ्यानामत्वरूपसूच्यार्थसूचनात्
४६४ विसंस्थुलं (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com