________________
१२२
दामोदरगुप्तविरचितं
लाघवतो यन्महतः प्रणयाद्वाऽसाधु यत्तवाचरितम् ।
प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥ ४६३ ॥ हृदयं मुष्टिभिरेव ताड्यते ॥” इति प्रियस्य प्रत्युक्ति: । क्रियाविषय: परिहास: यथाएकयानयोग्ये निःश्रेणिकामार्गे द्वयोः प्रतिकूलगमने नायिका मुखस्पृष्टनायकजङ्घाप्रदेशा संवृत्ता, ततः क्रमेण मुखस्पृष्टमुखा चेत्यादि रससदनभाणे (श्लो. ११५-११६ मध्ये गद्यम् ) ॥ ताः हृच्चुम्बिन्यः अत एव अविस्मरणीयाः । वक्रगिरः–वक्रमणितयः, प्रसिद्धस्थानव्यतिरेकिण्यः समुज्ज्वला उक्तयः, साकूतवचांसि, व्यञ्जकवाचः; तासु प्रियस्य यथा-" जानाति किं न भवती रसिकेषु मुख्यमन्योपकारकरणे च सदा रतं माम् । " इति रससदनभाणे ( १४५ ) परकीयां प्रति; प्रियायाः यथा-" लीलाम्बुजे मम रमस्व यथेष्टमस्मिन्मा गच्छ षट्पद परिभ्रमणेन किं ते ।" इति भिक्षाटनकाव्ये ( १४ । १७) शठं रमणं प्रति, यथा वा-" अङ्गं चम्पकमालिकेति सहसा गाढं न संश्लिष्यतां, कामं स्वाद्विति कोमलाधरदलं नो खण्डनीयं त्वया । तन्वंगी तरलेति नैव विविधक्रीडारसैः खेद्यतां, इक्षुः स्वादुतमो भवेदिति समं मूलेन किं खाद्यते ॥ " इति अनङ्गजीवनभाणे; उभयोर्यथा-" देहीति वाचि पदमद्य तवेन्दुमौले, चक्षुः पुनर्मुगदृशां मणिमेखलासु । पुंसो रसाहृदयस्य पुरो वधूनां वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥ " ( ९।११) इति भिक्षाटनकाव्ये । एवं परिहासानां वक्रगिरां च मधुरो रस: प्राय: सरसकवीनां दाक्षिणात्यानां शृङ्गाररसप्रधानभाणादिप्रबन्धेषु आस्वादनीयः॥] वामता-उद्दीपनाय अनुवृत्ते: अनङ्गीकरणं, विरुद्धाचरणं वा [तस्य समयः प्रसङ्गः, यथा-" चुम्बनेषु परिवर्तिताधरं, हस्तरोधि रशनाविघट्टने । विनितेच्छमपि तस्य सर्वतो मन्मयेन्धनमभूद्वधूरतम् ॥ " ( १९।२७) इति रघुवंशे; अत्र पूर्वार्धे वामतायाः उत्तरार्धे तत्फलस्य च वर्णनम् । परिहास–वक्रोक्तिवामतानां व्यञ्जकत्वप्राधान्यात् तेषां आलम्बनोद्दीपनत्वेन ते विरहेऽपि चित्तं अनुबध्नन्ति इति, ते नो हृदय कर्तव्याः-हृदि अवकाशं न देयाः विस्मरणीया एव, कदा ? रहसि एकान्ते स्वपत्नीसमागमे संप्रयोगे वा, न तु सर्वदा; किमर्थ ? क्षेमार्थिना लब्धायाः स्वीयायाः लक्षणया तत्प्रीत्या: रक्षणार्थिना, कुशलार्थिना वा, भवता श्रीमता।] ॥४६२॥ [ एवं निर्बाधं सुखोपायमुक्त्वा स्वस्खलनादीनां क्षमा याचते लाघवतः इति । लाघवतः स्वभावक्षुद्रतया, प्रणयात् स्नेहातिशयतः वा, यत्, तव महतः उदाराशयस्य, असाधुयतः क्लेशकरं, प्रतिकूलं सुखविरोधि, आचरितं कृतं, मया स्यादिति शेषः, तत्र तस्मिन्
४६३ मन्मनसः "द्वा यन्मया तवाचरितम् (प)। यनवा (का) यत्र वा (गो २. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com