________________
१२०
दामोदरगुप्तविरचितं
अथ विरतवचोदयितं बाष्पभराश्लिष्टवर्णपदयोगम् । इति कथमपि हारलता संमूच्छितवर्णभारतीमूचे ।। ४५७ ।। 'अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा । काहं रूपाजीवा, क भवन्तः श्लाघनीयजन्मगुणाः ॥ ४५८ ।। यत्त्वं विषयविलोकनकुतूहळादागतोऽसि, विश्रान्तः । इयतो दिवसानस्मिंस्तन्मम परजन्मसुकृतफलम् ॥ ४५९ ॥ गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।
अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ।। ४६० ।।
इत्यपि कुवलयानन्दे ॥ ] ४५६ ॥ [ अथ अनन्तरं, बाष्पभरेण आश्लिष्टः संयुक्तः वर्णानां अक्षराणां अत एव पदानां च योगः प्रयोगः यस्य तं, विरतं समाप्तं वचः उक्तिः यस्य स विरतवचाः स चासौ दयितः प्रियश्च तं विरतवचोदयितं सुन्दरसेनं, हारलता, ] संमूर्छिताः अस्पष्टाः [ वर्णाः यत्र तादृशीं भारतीं वाणीं, कथमपिउपस्थितविरहेण उत्कण्ठासंस्पृष्टहृदयत्वात् बाष्पवृत्तिकलुष कण्ठतया वैक्लव्यात् महता प्रयत्नेन, इति समनन्तरवर्णितप्रकारेण, ऊचे अवोचत् । ] ४५७ ॥ [ इतः हारलतावाक्यसप्तकम् । तत्रादौ विषमालङ्कारेण अननुरूपयो: घटनं अनुवदति अविशुद्धेति । अविशुद्धं वेश्याकुलोत्पन्नत्वात् पितृशुद्धिरहितं अपवित्रम् । देहार्पणं कामुकेभ्यः उपभोगाय शरीरसमर्पणमेव जीविका वृत्तिः यस्याः सा, शठाचरणा सकपटव्यवहारा | रूपाजीवा गणिका । श्लाघनीयं उच्चं प्रशस्तं, जन्म जनिः जननवंश: इति यावत्, श्लाघनीयाः गुणाश्च यस्य सः । मानार्थे बहुवचनम् । ] ४५८ ॥ [ अननुरूपयोः दीर्घकालं सङ्गतं असम्भवि अपि यत् निर्वृत्तं तत् स्वस्याः केनापि पुण्येन इति समाधत्ते यदिति । विषयाः देशाः । " रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम्। ( ३।११९ ) इति साहित्यदर्पणे । ] विश्रान्तः स्थितः । [ परं अन्यत्,
"9
66
परः श्रेष्ठारिदूरान्योत्तरे, क्लीबं तु केवले । " इति मेदिनी । ] ४५९ ॥ [ तदेव समर्थयति गुर्विति । ] अनुषङ्गः सामान्यसम्बन्ध: [ प्रसङ्गः वा, ] तेन दृष्टः ततः परिचित: तस्मिन् जने, आस्थां नियतबुद्धि, [ श्रद्धां वा, प्रविधाय कृत्वा, क: पुमान्, लोकद्वयसाधनत्वेन पूर्वं ( आ. ४३६ ) उक्तं गुरुपरिचर्यादित्रयं, सर्वाभिमतां स्वदेशवसतिं च परित्यजति; हेतुविशेषं विना न कोऽपि इत्याशयः,
४१७ भराकृष्टवर्णपदयोगात् ( प ) । संमूच्छितवस्तु ( १ ) ४१९ यत्तु विषयावलोकनकुतूह्वलाभ्यागतेन विश्रान्तम् । ... तन्मे परजन्मकृतशुभस्य फलम् ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com