________________
कुट्टनीमतम् ।
परुषं यदभिहिताऽसि प्रणयरुषा शङ्कितेन नर्मणि वा । सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्धाते ।। ४५५ ॥ तव हृदये हृदयमिदं विन्यस्तं, न्यासपालनं कष्टम् । यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४५६ ॥
अनिर्वचनीय:,] अनुबन्धः दोषोत्पत्तिः, “ दोषोत्पादेऽनुबन्धः स्यात् ” इति अमर:, वियोगात्मक भवितव्यतारूपः इति तात्पर्य, ] [यस्य, व्याधेरिव ] विपाकः परिणामः, [अप्रतीकारः "उपसर्गस्य घञ्यमनुष्ये बहुलम् ” ( पा० ६ । ३ । १२२) इति उपसर्गस्य विकल्पेन दीर्घः, अचिकित्स्यः अनिवार्यः इत्यर्थः, अर्थात् वियोगरूपः । अनिष्टस्य नामग्रहणायोग्यत्वात् साक्षात्तदुक्तेश्च हृत्तापकत्वात् विरहस्य अनभिधानं इति ज्ञेयम् । ] ४५४ ॥ [ द्वाभ्यामुपसंहरन् स्वस्य अविस्मरणं प्रार्थयितुमनाः आदौ किमपि विस्मरणीयमेव संज्ञापयति परुषमिति । प्रणयरुषा प्रणयकलहे यः कोपोद्गमः तेन, शङ्कितेन वितर्कपूर्णचेतसा, मया, यत्, परुषं कठोरं, अभिहिता असि उक्ता असि, तत्, त्वया सख्या सह इति शेषः, नर्मणि परीहासप्रसङ्गे, दुर्भाषणकीर्तनोद्वाते वा तद्विपरीते क्रोधोक्ति`समुपक्रमे वा, न स्मरणीयं विस्मरणीयमेव, तत् संस्मृत्य दुःखं न कार्यं इति भावः । उद्घातः प्रस्तावः । सुदति शोभना दन्ता दशना यस्याः सा सुदती, " वयसि दन्तस्य दतृ ” ( पा० ५।४ । १४१ ) इति वयसि गम्ये दन्तस्य सुपूर्वस्य दत्रादेशः, तत्सम्बुद्धौ । ] ४५५ ॥ [ अन्तिमप्रार्थनीयं पर्यायोक्त्या वक्ति तवेति । तव हृदये हृदयकोशे, इदं मम, हृदयं विन्यस्तं निक्षेपरूपेण ' थापण ' इति भाषायां, विन्यस्तं निहितं स्थापितम् । प्रसिद्धं चेदं यत् परकीयन्यासस्य पालनं रक्षणं, कष्टं दुःखेन कार्य इति । तथा च स्वप्नवासवदत्ते – “सुखमर्थों भवेद्दातुं सुखं प्राणाः सुखं तपः । सुखमन्यद्भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ ” ( १ । १० ) इति । अतः यथा स्थानभ्रंशः न्यासस्य स्वस्थानात् भ्रंशः अनुपलम्भात्मकः न स्यात् तथा, यत्नात् सावधानतया, विधेयं करणीयम् । अहं कदापि न विस्मरणीयः इति ध्वननात् पर्यायोक्त्यलंकारः । ““ पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् ” इति कुवलयानन्दे । अपि च हृदयस्य न्यासरूपेण कथनात् रूपकं, तद्बलाच्च अपरस्यापि अप्रस्तुतस्य द्रव्यालंकारादिन्यासस्य भ्रंशो न भवेत् तथा स रक्षणीयः इति अर्थपरिस्फूर्तेः समासोक्तिरपि; " समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तक्षुम्बति चन्द्रमाः ॥ "
४१५ यदभिहता ( १ ) । शंकितं च ( गो ) । द्वातौ ( प )
११९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com