________________
कुट्टनीमतम् ।
११७
अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् । दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥ ४४८ ॥
अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदिताम् । साऽपि तमनुवबाज प्रस्तुतयात्रं शुचाऽऽकुलिता ॥ ४४९ ॥ आसाद्य वटस्य तलं बाष्पपयाकणचिताक्षिपक्ष्मायाम् ।
विनितचरणविहारो हारलतामभिदधाति स्म ॥ ४५० ॥ "पितृवचनमवश्यमेव पाल्यम्" इति राधाविनोदटीकायाम् । पावकः अमिः ॥ तथा च नलचंप्वाम् ( ५. उ.) नलोऽप्येतदाकर्ण्य " तदिदं संकटं 'इतो व्याघ्र इतस्तटी, इतो दवामिरितो दस्यवः, इतो दुष्टदंदशूक इतोऽप्यंधकूपः' इति न्यायात्। इतः कर्णान्तकृष्टशरासनो मर्मप्रहारी प्रहरति मकरध्वजः, इतश्चायमेतेषां अलंघनीय आदेश: ।" इति ।" तदेतदतिसंकटं यदिह कैश्चिदुक्तं जनैरितोऽपि विषमा तटी भयमितो महाव्याघ्रतः ॥” ( ११३३ ) इति च ॥ विधिः भाग्यं, “ विधिर्वेधसि काले ना, विधाने नियतौ स्त्रियाम्" इति विश्वलोचनः; भाग्याधीने दैवायत्ते मृत्युकाले इत्यर्थः । अत एव कार्यस्य हारलतात्यागरूपस्य, परिणामं अन्तं, आत्मनः गमनं वा मरणं वा अन्यत् किमपि वा भविष्यतीति न ज्ञातुं समर्थः इति भावः ॥ अलविते तातादेशे प्रियाविरहतापः, विरहतापे च मरणं इति कारणमाला, तथापि मरणस्य विधिवशत्वविशिष्टोक्त्या कार्यस्य अनिश्चयेन कारणमाला व्यङ्गया ॥ ‘अलङ्घये ' इत्यत्र] 'लक्ष्ये। [इति पाठे] विधेये [इत्यर्थः । ] ॥ ४४७ ॥ [ प्रियात्यागे न्यायमाह अनेति । दैवं भाग्यम् । ] ['बालोऽपि ' इति पाठे] बाल: कर्तव्यविमूढः । वज्रकणिकाभिः हीरककणैः, घटितः संयोजितः सुदृढं निबद्धः, [वज्रतुल्यकठिनहृदय:] इत्यर्थः॥४४८॥ [अथेति अनन्तरम् । विनिश्चितिः निश्चयः, अभिमतरामां प्रियरमणी, हारलतां इत्यर्थः; विदितार्थी ज्ञाताभिप्रायाम् । प्रस्तुतयात्रं प्रवसन्तं] 'प्रस्तुतपात्र' [इति पाठे] प्रकरणविषयं नायकं इत्यर्थः । [अयं पाठः अक्षरसंभ्रमादुद्भूतः त्याज्य एव।] [शुचा शोकेन । ] ४४९ ॥ [वटस्य नगराबहिः स्थितस्य न्यग्रोधवृक्षस्य । “ पक्ष्माक्षिलोम्नि किजल्के तन्वायंशेऽप्यणीयसि ।" इति अमरः । विनितचरणविहारः, विहारः भ्रमणं " विहारो भ्रमणे स्कन्धे सुगतालयलीलयोः ।" इति विश्वलोचनः, वियोगकालप्राप्त्या ___४४८ मानसामेताम् (गो)। घटितो बालोऽपि वज्र०(गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com