________________
११४
दामोदरगुप्तविरचितं
प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः । आयतनं तु सुखानां संसारभुव कुलोद्गता दाराः ॥ ४४० ॥ निर्विण्णे निर्विण्णा, मुदिते मुदिता, समाकुलाऽऽकुलिते । प्रतिबिम्बसमा कान्ता, संक्रुद्धे केवलं भीता ॥ ४४१ ॥ यावद्वान्छितसुरतव्यायामसहाऽविरुद्ध संभाषा । चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४४२ ॥
"3
}
"
महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ (लिं) मणयो वसन्ति (लभंते) | ( १ । ७१ ) इति || ] ४३९ ॥ [ " जाया कुलोद्गता " इति ( ४३६ ) उक्तं, तामुद्दिश्य इतः षडार्याः । तत्र प्रथमं सुखप्राप्तौ स्वीयासामान्ययोः अन्तरं आह प्राक्तनेति । प्राक्तनानां पुरातनानां पूर्वजन्मकृतानां, कर्मणां विपाकः परिणामः यत्, क्षुद्रासु वेश्यासु, [ "क्षुद्रा वेश्यानटी कण्टकारिकासरघासु च । ” इति विश्वप्रकाश:, क्षुद्रापदप्रयोगेण अधमासु इत्यपि व्यज्यते, शरीरिणां देहवतां पुरुषाणां, आसक्तिः अतीव चित्तादिव्यासङ्गः; तथा च उक्तं काश्मीरिकमहाकविजहृणेन मुग्धोपदेशे - " शापः कोऽपि महानयं, परिणतिर्दुष्कर्मणामीदृशी, यत्संत्यज्य कुलाङ्गनां बहुमुखो दासीजन: सेव्यते ॥ ” (२६) इति ॥ आयतनं निवासस्थानं, तु पूर्वोक्तव्यावृत्तौ, संसारभुवां ऐहिकानां, सुखानां आनन्दानां, कुलोद्भवाः सत्कुलजाः, दाराः परिणीता स्त्री, ( दाराशब्दस्य नित्यबहुवचनत्वं आनुशासनिकम् ।) तासां धर्मशृङ्गारवत्तया प्रशस्तत्वात् । तथा च भरत:- " निजा पाणिगृहीती स्याल्लोकद्वयसहायिनी । ऐहिकं 1 सुखमाधत्ते स्वर्गे चामुष्मिकं तथा ॥” इति । ] ४४० ॥ [ एवं कामशृङ्गारं विनिन्द्य युग्मेन धर्मशृङ्गारमूलां कुलजां अकुटिलमनस्कतया पतिप्राणां प्रशस्ताचरणां पुण्यलभ्यां प्रशंसन् धर्मानुगुणं रतिकरं रसिकसम्मतं च कुलपालिकावर्तनमनुवदति निर्विण्णे इति । पत्यौ, निर्विण्णे खिन्नचित्ते, साऽपि तथा । मुदिते प्रहृष्टचित्ते । आकुलिते क्षुभितचित्तें । प्रतिबिम्बसमा छायातुल्या; तथा चोक्तं- -" हृष्टा हृष्टे विषण्णा स्याद्विषण्णास्ये सदा प्रिये । छायेवानुगता पुण्या संपत्सु च विपत्सु च ॥ " इति । तत्र एकमेवापवादमाह संक्रुद्धे इति। तस्मिन् कुपिते न सा प्रतिकुपिता परन्तु भीता भयाविष्टा भवति । ] ४४१ ॥ व्यायाम: दैर्घ्यम् [ "व्यायाम: पौरुषे व्यामे स्पर्धायां दुर्गसञ्चरे । आकर्षणे च वस्त्रादेः स्याद्दीर्घीकरणेऽपि च। आयासेऽपि ।" इति केशव:, विलम्ब इति यावत् । प्रियस्य यावान् सुरतकाल इष्टः तावन्तं हर्षेण साऽपि सहते, न तु तस्य अल्पत्वे हस्तिनीव असन्तुष्टा दीर्घत्वे
४४० °गता रामाः (प) ४४२ विरुद्धसंपर्का ( गो. का. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com