________________
११२
दामोदरगुप्तविरचितं विफलं शास्त्रज्ञानं, गुरुगृहसेवाऽपि नोपकाराय । विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३३ ॥ जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गल्या ॥ ४३४ ॥ नोपनिहन्तुं विषयाः शक्याः सत्यं, तथापि निपुणधियः । अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥ ४३५ ।। गुरुपरिचया, जाया कुलोद्गता, स्निग्धबन्धुसम्पर्कः ।।
ब्राह्मे कर्मणि सक्तिलोंकद्वयसाधनं सुधियाम् ॥ ४३६ ॥ सुतेन लोके सुखकारणतया अभिमतेन माता वन्ध्यात्वं श्लाघते शंसति, स तु पापतरः ॥ [ तथाहि हरिवंशे कृष्णवाक्यं-" नापुत्री विन्दते लोकान् कुपुत्राद्वन्ध्यता वरा । कुपुत्रो नरको यस्मात् सुपुत्रः स्वर्ग एव हि ॥” इति । ] ४३२ ॥ [ 'नियतिवशीकृत' इंति पाठे नियतिः " भाव्यर्थः, अदृष्टविशेषः, ब्रह्मलिखितपद्धतिः वा," इति कादम्बरीस्थतच्छन्दव्याख्याने भानुचन्द्रगणिः । न्याय्यं न्यायात् नीते: अनपेतं युक्तम् । ] ४३३ ॥ [जनः लोकः, यस्य वदनं वीक्ष्य कृतमुखभङ्गः विषादेन विकृतमुख:, अन्योन्यं परस्परं, यस्य दूरात् अङ्गुल्या निर्देशं करोति सोऽयं दुराचारः इति हस्तसंज्ञयैव परिचाययति, न तु नामापि गृह्णाति, तस्य दुष्टत्वात् । ] ४३४ ॥ [ विषयापतिप्राबल्यं समाधत्ते नेति । विषयाः स्रक्चन्दनवनितादयः, गुणगुणिनोरभेदेन तेषां मनोहरणबलं इति यावत्, उपहन्तुं नाशयितुम् । निपुणधियः कुशलाः । ] अपवादेन [अयं दुर्जनः इत्यादिरूपया ] निन्दया, विशेषितं दौर्गुण्यादिविशेषविशेषितं दत्तविशेषणं इति यावत् , यद् अभिधानं नाम, तस्य अभिधेयतां वाच्यतां, न गच्छन्ति निन्दाभाजो न भवन्ति इत्यर्थः । [ विषयबलं न विजीयेत इति सत्यं तथापि कुशलाः विषयाभिभवेऽपि लोकापवादविषयीभूतां सीमां न व्रजन्ति इति भावः । ] ४३५ ॥ [गुरोः जन्मदातु: विद्यादातुः वा, परिचर्या शुश्रूषा, तत्र आद्यस्य स्वधर्मत्वात् इहलोकसाधनत्वं, अपरस्य मोक्षमार्गप्रदर्शकत्वात् परलोकसाधनत्वम् ॥ कुलोद्गता सद्वंशजाता; जाया–यस्यां स्वयमेव पुनः पुत्ररूपेण जायते " आत्मा वै पुत्रनामासि " (कौशीतकीउप० २१११) इति श्रुतेः सा, विधिपरिणीता भार्या, सा च तृतीयपुरुषार्थवारिधितरीभूतत्वेन इहलोकसाधनं, यज्ञादिषु सहधर्मचारितया
४३३ नियतिवशी० (का) ४३५ नो परिहर्तुं (प)। विशेषता (4) ४३६ गुणोन्नता (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com