________________
कुट्टनीमतम् ।
१११
'अगणितसहचरवचसो दुर्व्यसनमहाब्धिमनवपुषस्ते ।
मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२९ ॥ निजवंशदीपभूतः कृतचरितालंकृतो महासत्वः । सुन्दर सम्पति तातः स्पृष्टो दुष्पुत्रदोषेण ॥ ४३० ॥ पुत्राभावः श्रेयान्न कुसुतता पुत्रिणः कुलीनस्य । अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेन ।। ४३१ ।। संव्यवहारत एव प्रायो लोके गुणः सुखानियतः ।
येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥४३२।। स्वप्रियस्य यत् हितं परिणामसुखं, तस्य आफलोदयं वारंवारं कथने सत्पुरुषाः क्लेशं न गणयन्ति । तदुक्तं-" भूयोऽपि पथ्यं वक्तव्यम्” इति । अर्थान्तरन्यासालंकारः ।। ४२८ ॥ [ तत्रादौ तदेव स्वावमाननं स्मारयति अगणितेति । सहचर: मित्रम् । दुर्व्यसनं अग्राह्यस्त्रियां आसक्तिः, गणिकासङ्गरूपः सुचरितभ्रंशो वा । परं मुख्यं दृढं वा, अवलम्बनं सहायकं निमजतः रज्जुः इव, ते तव, यदि किमपि भवति तर्हि तत् , मन्युः शोकः " मन्युः पुमान् क्रुधि । दैन्ये शोके च यज्ञे च ।" इति मेदिनी, तेन व्यथितस्य पीडितस्य पितुः वचनं लेखेन गोचरीकृतं एव भवति इति शेषः । रूपकालं. कारः ॥ ] ४२९॥ [कृते सत्ययुगे यत् चरितं धर्ममात्रमयं, तत्र धर्मस्य चतुष्पात्त्वात् , तेन अलंकृतः शोभितः । महान्तः सत्त्वा: सहजा गुणा यस्य स महासत्वः, "सत्त्वं प्राणास्मभावयोः । द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः । स्वभावे व्यवसाये च " इति विश्वलोचने । यद्वा महत् सत्त्वं यस्य सः, सत्त्वं च " चित्तस्याविकृतिः सत्त्वं विकृते: कारणे सति ।" इति लक्षितम् ॥ सुन्दर इति वात्सल्येन नामैकदेशग्रहणं, नाम्नाऽभिमुखीकरणं च स्ववचने आवर्जनार्थम् । दुष्पुत्ररूपदोषेण । ] ४३०॥ [चतुर्भिः कुपुत्रनिन्दा पुत्राभावेत्यादिभिः । पुत्रिणः पुत्रवत: पितुः, कुलीनस्य सद्वंशे जातस्य । या इति शेषः । अत्र पुत्राभावाख्यदोषस्य गुणत्वकल्पनात् लेशालंकारः । ] ४३१॥ संव्यवहारत इति । गुणः, संव्यवहारत: व्यवहारेण, प्रसिद्धयति; किं च प्रायः सुखानियतः सुखे कारणं न । [ दु:खदोऽपि कश्चित् लोकव्यवहारतः गुणः, सुखदोऽपि कश्चित् लोकापवादतः न गुणः, इति गुणत्वे प्रमाणं संव्यवहार एव, न तु सुखं इति भावः । तेन वेश्यासंगमे सुखभावाङ्गीकारेऽपि लोकव्यवहारनिन्द्यत्वात् स दोष एव इति फलितम् । ] परन्तु येन
४३१ दुःसुतता (प)। प्रसंगेषु (प)। ४३२ सांव्यवहारिक ..."गुणोन्नतिनियता (प) सांव्यवहारित (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com