________________
दामोदरगुप्तविरचितं इत्यवगतलेखार्थे सुन्दरसेने विधेयसंमूढे । आर्यामगायदन्यः स्वावसरे गीतिपरिकलिताम् ॥ ४२५ ॥ 'विषयतिमिराठताणामवटे पततामदृष्टमार्गाणाम् । पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥ ४२६ ॥ उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे । कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं वचनम् ॥' ४२७ ॥
लब्ध्वा वचसोऽवसरं मित्रमवादीत्पुरन्दरापत्यम् ।
पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥ ४२८ ॥ नष्टपरलोकः हताशोऽहं जातः इति तात्पर्यार्थः । ] ४२४ ॥ [ अवगतः विदितः । लेखार्थ:-क्रोध (४१२) विस्मय (४१३) निर्वेदादि (४२२) भावानां प्रकाशकः । विधेयसंमूढे इतिकर्तव्यतामतिशून्ये । गीतिपरिकलितां आर्या-सगीति आर्या, प्रथमं आर्यां ततः गीतिं च । ]. ४२५ ॥ [विषयाः इन्द्रियार्थाः; तद्रूपतिमिरेण अन्धकारेण, अपि च तिमिराख्येन 'नजला ' इति भाषायां प्रसिद्धेन साकल्येन दृष्टिरोधफलकेन नेत्ररोगविशेषेण; आवृताक्ष्णां पिहितनेत्राणां उपहतदर्शनानां; अवटे श्वभ्रे गर्ने ॥ गुरुजनवचनमेव द्रव्यं, तेन निर्मिता शलाका अञ्जनवतिः । यथोक्तं गुरुगीतायां (४७)-"अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ " इति । रूपकालंकारः ॥ ] ४२६ ॥ तदात्वे तस्मिन् ग्रहणसमये, " तत्कालस्तु तदात्वं स्यात् " इति अमरः । । सुखसम्पत्तिं देहस्य व्याधिनाशेन मन. सश्च आधिनाशेन शान्तिप्राप्तिम् । कटुक:-वाय्वमिगुणभूयिष्ठः षड्सान्यतमो रस:, तस्य लक्षणं सुश्रुते सूत्रस्थाने (अ. ४२) “ यो जिह्वाग्रं बाधते, उद्वेगं जनयति, शिरो गृह्णीते, नासिकां च स्रावयति, स कटुकः " इति, तद्वत् यत् औषधं “ वैद्यो व्याधि हरेधेन तद्व्यं प्रोक्तमौषधम् ।" इति आत्रेयसंहितायां, तस्य प्रयोगः । गुरुनिगदितं च तत् कार्यनिष्ठुरं निर्वर्तनविषये कष्टकरं च इति गुर्वादि || काव्यलिङ्गानुप्राणितो रूपकालङ्कारः ॥ ] ४२७ ॥ [प्रस्तावगीतेन लब्धावकाश: मित्रं कर्तृ गुणपालित:, "न कालविज्ञोऽवसरं जहाति । " (राष्ट्रौढवंशकाव्ये १६ । ३६) इति नीतिवित् , पुरन्दरापत्यं सुन्दरसेनं, पुनरपि-प्रथमं (३०२-३२४ आर्याभिः) कृतोपदेशस्य अग्रहणेन अवमानितोऽपि, भूयः, अवोचत् । यद्वा पुनरपि प्रियजनहितभाषणे इत्यन्वयः ।
४२५ गीतिसन्मिश्रां (प) ४२७ सुखसंवृद्धिं (गो. का ) सुखसंवृत्तिं ( कापा ) ४२८ लब्ध्वाथ वचोवसरं (प) लब्ध्वापि व (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com