________________
कुट्टनीमतम् ।
आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् । प्रकुपितवेश्यानुनये क शिक्षितं वचनचातुर्यम् ॥ ४२२ ॥ अथवा किं क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः । सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥ ४२३ ॥ त्वयि विनिवेश्य कुटुम्ब परलोकहितार्जनकविहितास्थः।
स्थास्यामीति समीहितमनुदिवसं, तद्विसंवदितम् ॥' ४२४ ॥ सन्तोषिताः, निपुणं सकौशल्यं चातुर्येण । ] ॥४२१॥ [आम्नायपाठे वेदमन्त्रोच्चारणे, स्फुटतरपदसौष्ठवं-पाणिनीयादिशिक्षानुसारेण प्रत्येकं वर्णानां यथास्थानादिना व्यक्ततया पदानां च यथास्वरं उच्चारणेन, सौष्ठवं अतिशयः, यथोक्तं पाणिनीयशिक्षायां " माधुयमक्षरव्यक्ति: पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थ च षडेते पाठका गुणाः ॥” (३३) इति; यद्वा “ अभ्यासार्थे द्रुता वृत्ति: प्रयोगार्थे तु.मध्यमा शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता ॥ " इति तत्तद्वृत्त्याश्रयणेन, पस्पशाह्निके महाभाष्ये उक्तसंवृताद्यष्टादशदोषराहित्येन च उच्चारणेन यत् सौष्ठवं तद्वत्त्वं; ख्यातं प्रसिद्धम् । अनुनयः क्रोधापनयनं सान्त्वनं, वचनचातुर्य चाटूक्तिप्रयोगवैचित्र्यम् । ] ॥ ४२२ ॥ [ पूर्वोक्तं विरुद्धाचरणदर्शनमूलं सर्व आश्चर्य कर्मदोषेण समाधत्ते अथवेति । अस्मिन् एतादृशविपरीताचारविषये, किं क्रियते-कः उपायः । अवदातकुले विशुद्धवंशे, लब्धजन्मानः उत्पन्नाः, यत् , सदसंस्तुताः ] सद्भिः अपरिचिताः निन्दिताश्च, [भवन्ति तत् केवलं, प्रागुपचितानां सञ्चितानां प्रारब्धोन्मुखानां, कर्मणां दोषेण एव जायते । आक्षेपालंकारः ॥ ४२३ ॥ चिरसेवितं स्वसंकल्पं, तद्भङ्गेन नैराश्यं च प्रकटयन् उपसंहरति त्वयीति । त्वादृशे सुपुत्रे कुटुम्बभरं विन्यस्य, परलोकाय स्वर्गाय तदाप्तये इत्यर्थः; यत् हितं पथ्यं इष्टसाधकं, तस्व अर्जने प्राप्ती, विहिता कृता, आस्था यत्नं, येन सः-स्वर्गाप्तिसाधनपरः-भविष्यामि इति, अनुदिवसं प्रतिदिनं, समीहितं इच्छाविषयीकृतं ध्यातं; " तथा च शङ्खलिखितौ-'पुत्रमुत्पाद्य, संस्कृत्य, वेदमध्याप्य, वृत्ति विधाय, दारैः संयोज्य गुणवति पुत्रे कुटुम्बमाविश्य, कृतप्रस्थानलिङ्गो वृत्तिविशेषाननुक्रमेत् । इति" इति, धर्माकूते, मनुस्तु-" महर्षिपितृदेवानां गत्वाऽऽनृण्यं यथाविधि । पुत्रे सर्व समावेश्य वसेन्माध्यस्थ्यमाश्रितः" ॥ (४।२५७) इति । तत् त्वया, विसंवदितं असिद्धिविषयी. कृतम् ॥ “प्रीणाति यः सुचरितैः पितरं स पुत्रः" इति नयविरुद्धेन तव कुचरितेन
४२२ तवाख्यातं (4) ४२४ जनैकनिरतात्मा (१) कविहिताशः (कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com