________________
दामोदरगुप्तविरचितं वंशेऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् । अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः॥४१३ ॥ क पुरोडाशपवित्रितवेदपदोद्वारगर्भवदनं ते । क च मदिरासववासितवारवधूमुखरसास्वादः॥ ४१४ ॥ क कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः। कच दासीरतसगरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१५ ॥
गर्हितं जनापवादः । शठ: धूर्तः दुर्जनः इति यावत् ॥ अत्र शोकः भावः । ] ४१२ ॥ [वंशे अन्वये कुले । ] अकुटिला निश्छला अवक्रा च । द्विजिह्वता सूचकता पिशुनता सर्परूपता च; "द्विजिह्वौ सर्पसूचकौ” इति अमरः । न परस्य विनाशे रतानां, परोऽन्यः पुरुषः स्वर्गलोकोऽपि । भुजङ्गो [ भुजं कुटिलं गच्छति इति ] जार: सर्पश्च । [अत्र अकौटिल्यादिगुणवैशिष्टयकारणात् तद्विपरीतगुणवतः भुजङ्गरूपकार्योत्पत्ते: असम्भवेऽपि तादृशस्य उत्पत्तिकथनात् विभावनालङ्कारः, “ क्रियायाः प्रतिषेधेऽपि कार्योत्पत्तिर्विभावना ।" इति काव्यप्रकाशे; पुनः “ अननुरूपसंसर्गो विषमम्" इति रसगङ्गाधरीयविषमलक्षणानुसारेण अत्र उत्पत्तिलक्षणस्य संसर्गस्य अयोग्यत्वं, कारणात् स्वगुणविलक्षणगुणकार्योत्पत्त्या इति विषमोऽपि; भुजङ्ग इति पदे तु रूपकातिशयोक्तिः । एवं श्लेषानुप्राणितः विभावनादित्रयाणां अत्र सङ्करः, तेन विवक्षितार्थस्य तच्चरितगीत्वस्य उत्कटप्रतीते: क्रोधरूपः भावः परं व्यञ्जितः । ॥ ४१३ ॥ [इतः नवभिः विषमालङ्कारभङ्गया तस्य भूतवर्तमानप्रवृत्त्योः घटनाननुरूपत्वं, तयोः अत्यन्तविरुद्धत्वात् ऐकाधिकरण्यस्य असम्भवेऽपि तथादर्शनात् विस्मयात्मकं अद्भुतं च प्रकाशयति केत्यादिना । तत्रापि पूर्वार्धे कृतविप्रोचिताचाराणां उत्तरार्धे तु क्रियमाणतद्विरुद्धव्यापाराणां वर्णनम् । पुरोडाश: सोमरसः, " पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तितः ।" इति विश्व:, तेन पवित्रितं वदनम् ;) उद्गारः मधुरध्वनिः । [केति-द्वौ क्वौ महदन्तरं सूचयत:, एवमन्यत्रापि । मदिरासवौ-मदिरा शीधुः मद्यसामान्ये, “शीधुरिक्षुरसैः पक्कैरपक्वैरासवो भवेत् ।” इति परिभाषाप्रदीपे, “ यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । " इति भावप्रकाशे । एतेन द्विविधमपि मद्यमुक्तम् । तत्र मदिरा मद्यं वा उन्मादजनकं, आसवस्तु केवलं उद्दीपक इति विवेकः । तत्र सुरापानं ब्राह्मणानां निषिद्धं, न क्षत्रियवैश्ययोः इति ज्ञेयम् । ताभ्यां वासितं सुरभीकृतं, यत् वारवधूमुखं वेश्यावदनं, तस्य यः रस: अर्थात् अधररस:, तस्य आस्वाद: पानानुभवः । ]॥ ४१४ ॥ [ कुशाः दाः, विपाटनं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com