________________
कुट्टनीमतम् ।
त्रुटितचरणत्रसङ्गतसंस्फुटिताभ्यक्तपादमलिनतनुम् । त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥४०८॥ (तिलकम् ) प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय । साकूतमना ऊचे 'वयस्य हनुमानयं प्राप्तः ॥ ४०९॥
अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ । उत्क्षिप्य झटिति लेखं सुन्दरसेनस्तु वाचयामास ॥ ४१० ॥ 'स्वस्ति श्रीकुसुमपुरात पुरन्दरः सुन्दरं समभिधत्ते । अन्तजृम्भितशोकग्रस्ताविस्पष्टवणेपदम् ॥ ४११ ॥ कुलमकलडूंन गणितमवधीरितमग्रजन्मनामुचितम् ।
नावेक्षितमवगीतं, शठसेवितवमनि त्वया पतता ॥ ४१२॥ व्यजनवाचकं, “ व्यजनं तालवृन्तं तत् ” इति कोश:, दलवृन्तशब्दस्तु अदृष्टचरः । कुतुपः चर्मनिर्मितं अल्पं घृतादिपात्रम् । ] [ 'कुतपः' इति पाठे] कुतपः नेपालकम्बलः [छागकम्बलो वा । "कुतपो भागिनेये स्यादष्टमांशे दिनस्य च । कुतपस्तपने छागकम्बले कुशवाद्ययोः ॥ " इति विश्वलोचने । तुम्बिकं दुधी इति प्रसिद्धालाबूफलनिर्मित जलपात्रम् । ] कटित्रं कटिं त्रातीति, कटिबन्धनस्य मार्गश्रमाल्पीकरणात् तद्वन्धने उपयुक्तं ] लघुवस्त्रम् [' केडीउं । इति भाषायाम् । ] [ इदं जातिवर्णनम् । ] ॥ ४०७ ॥ [चरणत्रः उपानत् । ] संस्फुटितः सपादस्फोटः, [अत एव ] अभ्यक्तो रजसा कीर्णः, [ वस्तुत: विरोपणद्रव्यलिप्त: । त्रुटितादिपादश्वासौ मलिनतनुश्च तम् । त्वरितगतिश्चासौ लेखवाहकश्च तं; आरात् दूरात् ।] [इयमपि जातिः । ] ॥ ४०८ ।। प्रत्यासन्नीभूतः समीपगतः । [साकूतमनाः विदिततदभिप्रायः इत्यर्थः । ] हनुमान् तत्सदृशः इत्यर्थः [ तस्य विलक्षणरूपवेशत्वात् दूतत्वाच्च तथारूपकोक्तिः । हनूमान् इत्यपि रूपम् । वस्तुतः हनुमान् इति दूतस्य नाम । ] ॥४०९॥ [ उत्क्षिप्य हस्तेन गृहीत्वा । "विवक्षितार्थकलिता पत्रिका लेख रितः।" इति रसार्णवसुधाकरे । 1॥ ४१० ॥ [स्वस्ति अव्ययम् , सर्वत्र लेखारम्भे प्रयुज्यते; सुशोभनं अस्ति वर्तते इति मङ्गलज्ञापकं, यद्वा सु अस्ति वर्तताम् इति आशीर्वादात्मकम् । अन्तर् इत्यव्ययं, मनसि इत्यर्थः । जम्भितः विकसितः, शोकः इष्टालाभतन्नाशादिजन्यो मनोविषादः।] ग्रस्तं परिक्षिप्तं । ॥ ४११ ॥ [ कुलं गोत्रम् । अग्रजन्मा चातुर्वण्र्ये प्रथमं जातः ब्राह्मणः । अवगीतं
४०८ संगतविस्फुटिता (प) स्फुटिताभ्यक्तान्त ( कापा)। लेखहारक (प) ४१० सुन्दर इति वा (प) ४१२ नापेक्षित (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com