________________
१०४
दामोदरगुप्तविरचितं इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् । सोऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०४ ।।
(कुलकम्) सुरचितरागोपचितेः स्वीकृतमनसस्तया समं तस्य । यौवनसुखमनुभवतो जगाम संवत्सरः साधः ॥ ४०५ ॥
विसम्भकथाः कुर्वन् विचरन्नुद्यानवेदिकापृष्ठे । सहचरकरसक्तकरः सुन्दरसेनः कदाचित्तु ॥ ४०६ ॥ स्थूलघनतन्तुसन्ततितोनिततूलाम्बरावरणम् ।
यष्टिपान्तनियन्त्रितदलवन्तककुतुपतुम्बिककटित्रम् ।। ४०७ ॥ चरे अधरे गले च कृते, शशप्लुतं तु दीर्घकालस्थायि परोक्षेऽपि कामुकक्रीडास्मारकं इति कृतम् ॥ नागरेण रमणेन लालिता सौभाग्यगर्विता इयम् । ] ॥ ४०३ ॥ [इति एवंप्रकाराः । उपसि प्रातःकाले । निशाभियोगः निशायां रात्रौ अभियोगो मर्दनं सुरतं इति यावत् । यथाक्रियमाणं क्रियमाणं अनतिक्रम्य वर्तते इति, कर्तव्यं नित्यं सन्ध्यावन्दनादिकं कर्म ॥ ] ४०४ ॥ [ एवं तस्य सुखातिशयेन कालापगमस्य अवधिमाह सुरचितेति । [ सुरचिता सुष्ठ उत्पादिता या रागोपचितिः स्नेहवृद्धिः इति कर्मधारयसमासः, तस्मात् , हेतौ पञ्चमी, स्वीकृतमनसः वशीकृतचेतसः तस्य । तया समं तया सह । यौवनसुखं युवावस्थोचितविलासादिजन्यं आनन्दं, अनुभवतः। सार्धः संवत्सर: अष्टादश मासाः। ] ॥४०५॥ [अत्रान्तरे भाविविरहबीजं पितुः सन्देशप्राप्ति प्राह विस्रम्भेति । यद्वा शृङ्गारे रूढपदस्य नायकस्य शान्तरसे प्रवेशं निगमयितुं वृत्तान्तरं कथयति विस्रम्भेति । ] विस्रम्भकथा: विश्वासेन रहस्यालापा: । [उद्यानं राज्ञः साधारणं वनं, तत्र वेदिका उपवेशनस्थानं, तस्य पृष्ठे पृष्ठभागे । ] ४०६ ॥ [ द्वाभ्यां तत्पितु: सन्देशहरं दूतं वर्णयति ] स्थूलेत्यादि । स्थूलानां, घनानां दृढानां च, तन्तूनां सन्तल्या परम्परया, तोलि(नि ?)तम् परिस्यूतं [ तुद्धातोः] तूलपूर्ण [ कार्पासगर्भ ] अम्बरं आवरणं यस्य तम् । नियन्त्रितं बद्धं । दलवृन्तकं व्यजनं, [ दलं तालदलं ग्राह्यं, तस्य वृन्तकं प्रसवबन्धकं, तस्य व्यजनोपयोगात् तालवृन्तकं दलवृन्तकं वा लक्षणया
४०४ निशानियोग (कापा) ४०५ स्वरुचित ( गो २. का) ४०६ °सेनः किल कदाचित् (गो. का) ४०७ संततितानितनानापटचरावरणम् (प) संततितो. लिततूलाम्बरा (गो. का)। दलवीटककुतपतुंबकप्रायम् (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com