________________
कुट्टनीमतम् ।
आकर्षन्ती जघनं व्रजसि यथा विलिखिता नखैस्तिलशः। मन्ये तथोपभुक्ता केरलि केनापि दाक्षिणात्येन ॥ ४०२ ।। अधरे बिन्दुः, कण्ठे मणिमाला, स्तनयुगे शशप्लुतकम् । तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०३ ॥
अयोग्यः, [ तादृशस्य अधिकस्य इति यावत् अर्थस्य कामिदातव्यस्य द्रव्यस्य प्रार्थनम् । पूर्व एवं कदापि नाभूत् , एवं लोकसमक्षम् । तथा च एवं मेऽवमानना कृता । यद्वा कृत: अन्यायः इति च्छेदः, एवंप्रकारेण अन्यायः औचित्यशून्यं पूर्व नो कृतं इत्यर्थः । लोकापवादेन अवमानिता इयम् ] ॥ ४०१ ॥ [ कामुकेन, नखैः, तिलश: निबिडं इति यावत् , विलिखिता दत्तक्षता, अतः जघनं आकर्षन्ती महाकृच्छेण इत्यर्थः, ब्रजसि गमनं करोषि, तथा तेन, मन्ये अनुमिनोमि, केरलि वाराङ्गनाविशेषसम्बोधनं, न तु केरलदेशवासिनि, केनापि दाक्षिणात्येन मगधात् दक्षिणे उत्कलदेश: तत्रत्येन, यत: तद्देशोद्भवाः प्रायः नखदंततोषिण्यो भवन्ति तेन तत्रत्त्यस्य कामुकस्य तत्परायणत्वं; त्वं, उपभुक्ता सम्प्रयुक्ता कृतसम्भोगा, इति । अनुमानालङ्कारः । विदेशीयकामुकसम्भोगेन प्राप्तनूतनविलासा इयम् । ] ॥ ४०२॥ बिन्द्वादय: सुरतचिह्नविशेषाः । तल्लक्षणानि च कामसूत्रे | द्वितीयाधिकरणे चतुर्थपञ्चमाध्याययोः द्रष्टव्यानि ।। बिन्दु:-अधरमवष्टभ्य तन्मध्ये राजदन्ताभ्यां निष्पादितः क्षतः; मणिमाला-दन्तावलिभ्यां निष्पादिता दशनाङ्कावलिः, सैव प्रतिदंशशृङ्खलया कृता-बिन्दुमाला । अनयोः भेदे बहवः कामशास्त्रप्रकरणकारा भ्रान्ताः । देवरायमहाराजप्रणीतरतिरत्नप्रदीपिकायां स्पष्टं भेदनिरूपणं, यथा-" मध्येऽधरं रदद्वन्द्वसंदंशेनाल्पखण्डनात् । जातं दशनविच्छेद्यं बिन्दु वात्स्यायनोऽब्रवीत् ॥ .. 'रदनद्वयदंशेन मालाकाराश्च बिन्दवः । ऊर्वोर्ललाटे च कृता बिन्दुमालेति तां विदुः ॥ सिताप्रर्दशनैः सर्वैर्युगपद्देशना कृता । बिन्दुमालेव मुनिभिर्मणिमालेति सोदिता ॥” इति चतुर्दशपरिच्छेदे । इमे दशनच्छेद्ये गलकक्षवंक्षण(ऊरुसन्धि )प्रदेशेषु भूषणतां प्रयातः । तत्र मणिमाला अभ्याससाध्या ॥ शशप्लुतं नखविलेखनविशेषः, तल्लक्षणं-" लेखाः स्तनास्ये विरला मयूरपदं नखात्रैः सकलैनिषक्ताः । शशप्लुतं पञ्चनखव्रणानि सान्द्राणि तच्चूचुकचिह्नमाहुः ।" इति हरविजयमहाकाव्यटीकायां (२७।७० ) कस्यचित् । मयूरपदशशप्लुते रागवर्धनात् रमणीनां बहुमते ॥ प्रकृते स्वरतिकलाचातुर्यज्ञापनाय कामिना बिन्दुमणिमाले सर्वदृग्गो
___ ४०२ यथा विक्षता (प) भुक्ता त्वं करेलि दा (१)४०३ कुचयुगे (प) केरलि ( गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com