________________
१०२
दामोदरगुप्तविरचितं
अविदितदेशप्रकृतेः शठात्मका दुर्विदग्धतोऽस्माभिः । अनुभूतो राजसुतादा भण्डविडम्बना क्लेशः ।। ४०० ॥ प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीताऽस्मि । एवं तु नो कदाचिद्विगुणार्थप्रार्थने कृतो न्यायः ॥। ४०१ ॥
लोदराभिः हसितं इव कार्पासीभिः ॥ ) ' बोडं ' कर्पासफले देश्यम् । अत्र हलिकः क्षेत्रिकः, न स म्लेच्छ एव । अत्र सुरततृप्तिसुप्तिमरणदशयोः विवेकाभावेन जडहलिक्रस्य पलायने तन्मौर्य दृष्ट्वा समीपस्थाभिः सखीभिरिव कार्पासीलताभिः हसितभिव इत्युत्प्रेक्षा, तत्र सादृश्यबीजं तु कार्पासफलस्फोटेन बहिर्भूतकार्पासस्य चैत्यं; हासस्य च श्वैत्यं कविसमयप्रसिद्धं, यदाह विश्वनाथकविराजः – “ मालिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः । " ( ७ । २३ ) इति । अतः ' दरफुडिअवेण्टभारोणआइ ' (दरस्फुटितवृन्तभारावनतया ) इति क्वचित् पाठः स न रसावहः । एतदार्याव्याख्यानावतरणे " कोऽप्यात्मनो विज्ञत्वं ख्यापयन् सखायमाह " इति गङ्गाधरोक्तिः न तत्त्वस्पर्शिनी अस्या: अतिजडहलिकपरत्वात् ॥ ' ग्रामेयककामिना ' इति पाठे " कत्र्यादिभ्यो ढकञ् " ( पा. ४ । २ । ६५ ) इति ढक ढकारस्यैयादेशे ग्रामेयक इति रूपम् ॥ अत्र हीनपात्रत्वात् शृङ्गारस्य रसाभासेऽपि अद्भुतहास्ययोः शबलत्वं स्पष्टमेव । तेन न रसक्षतिः । यद्वा भावप्रकाशका
1
रमतेन “ शृङ्गारो हास्यभूयिष्ठः शृङ्गाराभा ईरितः " इत्युक्तेः अस्तु शृङ्गाराभासत्वम् । ग्रामीणसंगता तन्मौर्येण विस्मिता इयम् । ] ॥ ३९९ ॥ [ अज्ञातदेशस्वभावात्, धूर्तात्, अत एव दुर्विदग्धात् गर्वितात्, कस्मादपि राजपुत्रात्, अस्माभिः गृहस्थिताभिः सर्वाभिः एव, आ: सन्तापे, भण्ड: ' भांड ' इति प्रसिद्ध : अश्लीलभाषी, तत्कृता या विडम्बना तिरस्करणं तस्य क्लेश: बाधा अनुभूतः । तादृशात् केवलं अश्लीलवाक्यश्रवणादिकं एव प्राप्तं, नान्यत् किमपि इति भावार्थः । भण्डविडबिता विषण्णा इयम् । ] [ 'राजसुतादवभाण्डविडम्बनाक्लेश:' इति पाठे ] अवभाण्डं भाटकरूपेण दत्तं रिक्तं भाण्डम्, [ यद्वा अवभाण्डं कूटभूषणं, “भाण्डं भूषणमात्रेऽपि, भाण्डं मूलवणिग्धने । नदीपात्रे, तुरङ्गाणां भूषणे, भाजनेऽपि च ॥ " इति विश्वः । ] ॥ ४०० ॥ [ नगरप्रभुः नगराध्यक्षः तेन, हठात् बलात्कारेण मदिच्छाविरुद्धं, लोकसमक्षं नीता - तेनैव न्यायो न कृतः परन्तु पञ्चकुलं आहूतम् । विवादवस्तु तु ] विगुणः
४०० अवभाण्डविडंबनावेश: ( गो ) अधिभा ( का ) ४०१ एवं बंधकदातुद्वि ( द्वि ? ) ..... ने कुतो न्याय : ( १ ) कृतोऽन्याय: ( का ) । एवं तु ननु ( कापा ) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com