________________
कुट्टनीमतम् ।
पल्याङ्कनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः । मधाचनया नितरां निःस्वेदः स्वेदसलिलसंसिक्तः ॥ ३९७ ॥ पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्की । ग्रामोषितः महीणो निष्पतिपत्तिः स्थितोऽय सखि मनुजः॥३९८॥
(युगलकम् ) शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।
सुरतरसमीलिताक्षी मृतेति भीतेन मुक्ताऽस्मि ॥ ३९९ ॥ वेगः किन्तु मध्यवेगः, सम्प्रयोग: रतं यस्य सः; पेशलवचनः चाटूक्तिः; सवक्रपरिहासः वक्रोक्तिवचनोपन्यासैः परिहासजनकः, वाग्विदग्ध इति यावत् । कुशलवशेन भद्रप्राप्त्यधीनतया, सौभाग्येन इति यावत् । रमणः कामुकः, मनोहराकारः सुन्दरः । लब्धोत्तमनायका समरतात् हर्षिता इयम् । ] ॥३९६॥ [ अथ तिसूषु ग्रामीणकर्तृकरतजातिः, तत्र युगलके अप्राप्तरतस्य, तृतीये प्राप्तरतस्य । “विरमति कथनं विना न खेदः" इति न्यायेन काचित् सखीं वक्ति पल्यङ्केति । पल्यङ्कः खटा पलंग' इति भाषायां तस्य अङ्के मध्यभागे, निलीन: शयानः, नायिकायाः नागरिकतया अभिभूतः तत्पराङ्मुखः, अत एव अकिञ्चित्करत्वात् निःश्वासवान् , ] मद्याचनया ममैव कार्यप्रार्थनया, [ निःस्वेदः शान्तस्मरतापः, ' स्वेदः स्वेदनघर्मयोः '' इति विश्वलोचने, ] भव्यस्वभावात् स्वेदाः । ॥ ३९७ ॥ [ एवं अस्तमदनोदयोऽपि, तच्चिन्तया अप्राप्तनिद्रः, अत एव अरुणोद्माकाङ्क्षी, ग्रामोषितः कश्चित् ग्रामवासी, मनुजः मनुष्यः इति अवहेलनोक्तिः, अद्य अस्यां रात्रौ, मयैव प्रहीणः त्यक्तः,] [ दत्तभाटकः अप्राप्तरतश्च सन् ] निष्प्रतिपत्तिः कर्तव्यमूढः, स्थितः आसीत् । अतिमूढग्रामी. णकसंगता परिहासवती इयम् । ] ॥ ३९८ ॥ [ग्रामीणकः-ग्रामे भवः ग्रामीणः, स एव ग्रामीणकः । सुरतरसेन मीलितनयना अहं मृतेति अनुमीय, भीतेन त्रस्तेन, शीघ्रमेव त्यक्ता । मां मृतां ज्ञात्वा स पलायनं चकार । तथा च गाथासप्तशत्याम् (४ । ६० ) " अजं मोहणसुत्तं भिअत्ति मोत्तू पलाइए हलिए । दरफुडिअबोडभारोअराहि हसि व फलहीहिं ॥" (आर्या मोहनसुप्तां मृतेति मुक्त्वा पलायिते हलिके । दरस्फुटितफ
३९७ पर्यकासनलीनः (प)। मनोदनया सुतरां निष्यंदस्वेद (प)। ३९८ 'नङ्गोऽप्यपगतनिद्रः (गो. का.) ३९९ [ इयं प पुस्तके ३९३ अंकान्तरं ] ग्रामेयककामिना (प)। सुरतसुख (प)। ग्राम्येण तु कामिना भीत्या विमुक्ताऽहम् (इति क्वचित् सुभाषितपाठः)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com