________________
१००
दामोदरगुप्तविरचितं
अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः । अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९३ ॥ नेच्छाविरतिः क्षणमपि, न च शक्तिर्वस्तुशून्यरतियत्नैः । केवलमलमद्याहं कदर्शिता वृद्धपुरुषेण ।। ३९४ ।। मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमनायाः । अविरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९५ ॥ सुकुमार संप्रयोगः पेशलवचनः सवक्रपरिहासः । कुशलवशेन समेतो मम सखि रमणो मनोहराकारः ॥ ३९६ ॥
अनुवदति परिचितेति । अहं आसमिति शेषः । समं सह, पानं मदिरादेः । मोहनकार्य सुरतं, यत्किञ्चित् अल्पमेव, जातम् । मन्दवेगशीघ्रकालकामिसङ्गता नीचरतात् असन्तुष्टा इयम् । ] ॥ ३९२ ॥ श्रमकठिनः श्रमेण कठिनो दृढगात्रः, [ अतः दुःसहः, यद्वा श्रमे श्रमवति कृत्ये कठिनः कर्कशः; दुर्लभा योषित् यस्मै सः तथा च अत्यातुर इत्यर्थः । अत एव कदर्थनाकरत्वात् अपमृत्युरूपः, [ तत्प्रापकत्वात्, ] [ युवा वर्धमानयौवनः । ] उपक्रान्तः आगतः । [ प्राप्तचण्डवेगचिरकालकामुका उच्चरतात् असन्तुष्टाँ इयम् । अविदग्धादिषडिशेषणैः असत्समुच्चयालङ्कारः; कामिव्याजेन अपमृत्युः इति कैतवापह्नुतिः, अत्र व्याजपदेन नायं कामी किन्तु दुर्मरणकारी इत्यपह्नवः प्रतीयते इति द्वयोरत्र संसृष्टि: ।] ॥ ३९३ ॥ [ इच्छायाः सुरतलिप्सायाः, क्षणमपि, विरति: उपरमो न, तस्या उत्कटत्वात्। वस्तुशून्याः संभोगौपयिकसामर्थ्यरूपवस्तुरहिताः, संभोगाक्षमाः इत्यर्थः, ये रतियत्नाः तत्प्राप्त्यर्थ कृता नानाविधा उपायाः तैः, अद्य अस्यां रात्रौ, वृद्धपुरुषेण जराक्षीणवीर्यत्वात् ध्वजोत्थानशून्येन, अलं भृशं अत्यर्थ, कदर्थिता अनुचितव्यापारवती कृता अर्दिता वा । " असम्भोगो जरा स्त्रीणां " इत्यनुभूतं इति तात्पर्यम् । तथा च भट्टवृद्धेः वृद्धरतवर्णनम् - " यत्नोत्थापनमात्रनिःसहजरच्चर्मावशेषश्लथभ्रश्यच्छेप्रसि दुर्बलाङ्गवलनव्यर्थोद्यमालिङ्गने । लज्जाधायिनि विद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते यत्स्यात् तत्प्रतिभाव्य, किं नु हसितुं युक्तं किमारोदितुम् । ” इति । रतशक्तिशून्यवृद्धसमागमेन कदर्थिता इयम् । ] ॥ ३९४ ॥ [ अभियोक्तरि सम्प्रयोगकर्तरि कामुके, तल्पभागे शय्यैकदेशे, रतान्ते मद्यपानेन नष्टसंज्ञत्वात् मृतवत् जाते । रतोत्तरं अनायासिता सुखसुप्ता इयम् । ] ॥ ३९५ ॥ [ सुकुमारः - न मन्दवेगः नापि चण्ड
३९३ अपमृत्युमप (प ) ३९४ रयत्नेति ( प ) ३९५ भागमधिरूढे -अनिवारित निद्रायाः ( प ) ३९६ शकुनवशेनोपनतो ( प ) । मनोभवाकार : ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com