________________
कुट्टनीमतम् । किं रमणी रमणोऽविशदुत रमणं सा न जानीमः। स्वावयवावगमस्त्वप्रकाशमगमत्तयोस्तदा निपुणम् ॥ ३८७ ॥ तस्या निमीलितदृशो निस्पन्दतनोबभूव सुरतान्ते ।
लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥ ३८८॥ सुप्ता कोमलपद्मपत्रशयने खेदं परं गच्छति । सा सर्वाङ्गभरं प्रियस्य सहते केनाऽप्यहो हेतुना, चित्रं पश्य, किमत्र चित्रमथवा, कामस्य किं दुष्करम् । " इति । तथा च पञ्चायुधप्रपञ्चभाणे-"सहजप्रेमरसानां गुरुरपि लघुतामुपैति तनुरङ्गे । कुसुममसोढनखाङ्क तुन्दिलमधुपाल्लघूद्वहति ॥ (३३) इति । अत्र विरोधः काव्यलिङ्गं च अलंकारौ । 'न परम् । प्रव्यथिता । इति पाठे-व्यथां न प्राप्ता, मुदं हर्ष, परं तु, प्राप्ता इत्यर्थः । तत्र अबलायाः बलिना आक्रमणे कृते पीडाप्राप्तिनिश्चयेऽपि तदप्राप्त्या विशेषोक्तिः, इष्टप्राप्तिहर्षेण प्रहर्षणालंकारो व्यङ्गयः, काव्यलिङ्गं च । ] ॥ ३८६ ॥ [सुरतयोगे तयोः देहसायुज्यरूपं अद्वैतं जातं इति अत्र वर्णयति, ततः किमु वाच्यं हृदयाद्वैतं निवृत्तं इति च ध्वनयति । अविशत् तृष्णातिशयेन ऐक्यं अभिलषन् अनुप्राविशत् । पूर्वार्ध विशदयति स्वेति । अयं अवयवो मम अयं परस्य इति भेदबोधः, तु, निपुणं अत्यन्तं इत्यर्थः, अप्रकाशं अविभाव्यतां अविवेचनीयता, गतः, तदा सुरतसम्प्रयोगे । अनुभवगोचरमिदं प्रायः विपरीतरतरक्तमानसानां प्रगल्भारतसूचकं च । तथाहि रुद्रट:-" लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा । आक्रान्तनायकमना नियूंढविलासविस्तारा (१२ । २४)॥सुरते निराकुलाऽसौ द्रवतामिव याति नायकस्याङ्गे। न च तत्र विवेक्तुमलं कोऽयं काऽहं किमेतदिति ॥ (१२ । २५) इति । अपि च सुभाषितावल्यां रसकवेः अमरुकस्य पद्यं-" आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताऽप्यनङ्गेन या, यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । कोऽयं काऽहमिति प्रवृत्तसुरता जानाति या नान्तरं, रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥” इति । एतेन शुद्धत्वात् अयं उत्कृष्टशृङ्गारः, नात्र तदाभासलेशोऽपि इति सूचितम् । अत्र सन्देहालङ्कारः । ] ॥ ३८७ ॥ [ एवं सुरतं वर्णयित्वा तस्याः सुरततृप्ति वर्णयति ] तस्या इति । [ निस्पन्दा-स्पन्दः किञ्चिचलनं 'स्पदि किञ्चिच्चलने । घञ् , निवृत्तः स्पन्दो यस्याः सा निस्पन्दा अत्यन्तनिश्चला मृतवत् । ] अनङ्गच्छाया शरीरे कामकान्ति:, [ कामावेशेन जातविशेषा शरीरमात्रव्याप्ता कान्ति:, ] जीवितसत्तायाः अनुमानस्य तदात्मकज्ञानस्य, लिङ्गं हेतुः, बभूव । तया तस्याः
३८८ अनगावस्था (प. कापा) । निःस्पन्द (प)। 'मानस्य (गो २) मानेऽस्य ( कापा) मानेन (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com