________________
९६
दामोदरगुप्तविरचितं अत्यभ्यस्ता याऽन्या सुरतविधौ विविधचाटुपरिपाटी । तामालूनविशीर्णा चकार सहजः स्मरावेगः ।। ३८४ ॥ सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् । कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥ ३८५ ॥ बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।
न व्यथिता, मुदमाप, प्रभवति खलु चित्तजन्मनः शक्तिः॥३८६॥ प्रविचार्य सम्यक् विचार्य वक्तव्यं, च्छादनीयं गोपनीयं अकथ्यं, अविषा उक्तं श्रुतं वा सोढुं अशक्यं; अनेन सुरते वाक्प्रचारप्रकारः प्रदर्शितः। ॥ ३८३ ॥ [तथापि चाटूक्तीनां अप्रसरं प्राह अत्यभ्यस्तेति । ] अत्यभ्यस्ता पूर्व मनोऽभिध्याता, [यद्वा पौनःपुन्येन प्रकटिता, अन्या भिन्ना सुरतविधेः पूर्व भिन्नप्रकारा, चाटुः प्रियवचनं, " अनी चाटुश्चटुः श्लाघा प्रेम्णा मिथ्याभिशंसनम् ।" इति कोशः, तेषां] परिपाटी परम्परा [ तां ], आलूनविशीर्णा [ सर्वतोऽपि ] छिन्नभिन्नां, [सहजः नैसर्गिक: अकृत्रिमः, स्मरावेग: मदनसंरम्भः, सुरतविधौ चकार इत्यन्वयः । सुरते चाटोः अप्रवेशः जातः इति भावः।] ॥ ३८४ ॥ [ सद्भावः सदभिप्राय:, रागः प्रेम, उभाभ्यां दीपितः उत्साहितः, मदनः कामदेवः, स एव आचार्य: अध्यापकः, " उपनीय तु यः शिष्यं वेदमध्यापयेहिजः । साङ्गं च सरहस्यं च तमाचार्य प्रचक्षते ॥" (२।१४० ) इति मनुना उक्तः, तेन उपदिष्टाः चेष्टाः क्रियाः तासां, परिगणनं सङ्ख्याज्ञानम् ]; रतिचक्र सुरतप्रबन्धः, [रागोत्पीडः इति कामसूत्रटीकायां जयमङ्गलः । रमणयोः प्रिययोः । तदुक्तं-" शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः । रतिचक्रप्रवृत्तस्य नास्ति शास्त्रं न च क्रमः ॥ " (कामसूत्रं २।२) इति, “ नास्त्यत्र गणना काचिन्न च शास्त्रपरिग्रहः । प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥ स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः । सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ।" (कामसूत्रं २७) इति च ।। ३८५ ॥ [मद्वी बाला बलिना पुरुषेण आक्रान्तशरीरा सती,न न व्यथिता-" द्वौ नौ प्रकृतमर्थ दृढं सूचयत:" इति न्यायेन व्यथितैव पीडितैव, परं पूर्वोक्तस्य क्षेपे-तथापि, मुदं हर्ष प्राप, तत्र हेतुः, चित्तजन्मनः स्मरस्य, शक्तिः बलं, प्रभवति प्रकृष्टा समय भवति; "अचिन्त्यशक्तिभंगवाननङ्गः।" इति भावः । तदुक्तं केनचित् कविना-"या सा चन्दनपङ्कमङ्गपतितं भारं गुरुं मन्यते,
३८४ अभ्यस्ता या तन्व्या (प) प्रत्यभ्यस्तायान्यं ( कापा)। ३८६ °विप्रहा सपदि । न व्यथिता (प) विग्रहा न परम् । प्रन्यथिता (गो.)। प्रभवतिननु (प)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com