________________
फुटनीमतम् । अप्रागल्भ्यं व्यसनं, धैर्यमकार्य, विवेक उपघातः । हेपणमगुणो यस्मिस्तत्सुरतं प्रस्तुतं ताभ्याम् ॥३८०॥ (कुलकम्) प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् । तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥ ३८१ ॥ सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिणीते । नानाकरणग्रामे लालित्यमवाप पाण्डित्यम् ॥ ३८२ ॥ अभिधेयमनाख्येयं प्रविचार्य च्छादनीयमविषह्यम् ।
न बभूव तयोस्तस्मिन्नारब्धे सुरतपरिमर्दे ॥ ३८३ ॥ हिष्णुता ।" इति च । एतेषां मन्दादिभेदाः तत्रैव द्रष्टव्याः । ] ॥ ३७९ ॥ [ पूर्व (३७६-३७७) लोके केचित् ये दोषत्वेन मताः ते सुरतप्रसङ्गे तु गुणा एव इति रहस्यं दर्शितं, सम्प्रति केषाञ्चित् गुणानां तु तत्र दोषत्वमपि इति वस्तुस्थितिमाविकरोति अप्रागल्भ्यमिति । 1 अप्रागल्भ्यं लजादिना अप्रौढिः, व्यसनं नाशकं, तद्वत् परिहरणीयमित्यर्थः । [धैर्य पीडादौ विकारस्य अप्रदर्शनं, अकार्य इति अधर्मादिवत् भावरूपं कुकर्म इत्यर्थः । विवेकः इदं मया कर्तव्यं न वा इति विचारः, उपघातः कार्ये अयोग्यतासंपादकः । ] हेपणं लजाकरं, [हीधातोः हेतुमण्णिजन्तात् भावे ल्युट् , यद्वा लजाकरणं करणे ल्युट ; अगुणः दोषः । प्रस्तुतं आरब्धम् ।] [अत्र लेशालं. कारो गम्यः । ] ॥ ३८० ॥ [धक् धग् इति प्रज्वलितामिजशब्दानुकरणम् । अतिशयोक्तिर्व्यङ्गया।] ॥ ३८१ ॥ [ सहजरसः शृङ्गाररस:, तस्य सर्वप्राणिषु विद्यमानत्वेन तत्स्वभावत्वात् , तेन जडीकृतं कुण्ठितं, इति प्रकारे, कुण्ठितप्रकारं इति यावत्, “ इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ।" इति विश्वलोचने, यत् यूनोः तरुणयोः तयोः, पाण्डित्यं नानाविषयेषु ज्ञानात्मकं क्रियात्मकं च नैपुण्यं, तत्, कामशास्त्रनिर्णीते अनङ्गागमप्रतिपादिते, नानाकरणानां तत्र वर्णितानां उपविभागादिना चतुरशीतिसङ्ख्याकभेदानां नागरकादिरतिबन्धानां ग्रामे समूहे, लालित्यं मनोहरत्वं, अवाप प्राप ॥ कुण्ठितमपि लालित्यं अवाप इति विरोधः, अन्यत्र कुण्ठितं सुरते तादृशं न इति समाधिः । एतेन तौ सुरतरसे तथा निमग्नौ यथा वेद्यान्तरं न किञ्चिदपि विविदतुः इति ध्वन्यते ।] ॥ ३८२ ॥ [अनाख्येयं अनभिधेयं
३८१ झगिति (प)। शक्या (प) ३८२ निर्णीतौ (गो. का)। मालिन्यमवाप (प) इयाय (गो २. कापा ) ३८३ अविधेयमनाख्येयमविचार्य छादनीयं (प)। तस्मिन्नाविवारब्धसुरतसंमदें ()
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com