________________
९२
दामोदरगुप्तविरचितं
अविनय एव विभूषणमलीलाचरणमेव बहुमानः । निःशङ्कन्तैव सौष्ठवर्मनवस्थितिरेव गौरवाधानम् || ३७६ ॥ केशग्रहणमनुग्रई उपकारस्ताडनं, मुदे दंश: । नखविलिखनमभ्युदयो, दृढदेहनिपीडनं समुत्कर्षः ॥ ३७७ ॥
66
उभयोर्गाढरागत्वात् प्रौढमन्मथरसं प्रगल्भाख्यतरुणीरतं ललितरीत्या वर्ण्यते । तच्च हारलतायाः मुग्धात्वेऽपि गणिकात्वात् बाल्ये एव अधीतसकलकामतन्त्रत्वात् सुन्दरसे - नस्यापि अनङ्गागमपारीणत्वात् च न विरुद्धम् । तदुक्तं रतिरहस्ये ( ४।४ ) “ यौवनस्था सद्भावारब्धगाढोद्भटरतिसुखिता " इति ॥ तत्रादौ षड्भिः कुलकेन प्रस्तुतसुरतस्य वैशिष्ट्यं प्राह यदिति । अमन्दः चण्डवेगो मन्मथः कामः । तथा तथाविधम् तादृक् । यौवनेन तरुणावस्थया अभिरामं सुन्दरं, तरुणयोः सुरतस्यैव परमानन्दावहत्वेन यथार्थत्वात् । " सौन्दर्य प्रीतिसंपत्तिश्चण्डवेगोऽथ यौवनम् । एकैकमनुरागाय किमु यत्र चतुष्टयम् ॥” इति भावः ] ॥ ३७५ ॥ [ इतः अन्तर्विशेषकम् | यस्मिन् सुरते, अविनय एवेत्यादि पूर्वार्ध व्याख्यातप्रायं ' असमञ्जसमिति ( १६० ) आर्याटिप्पण्याम् । निःशङ्कता निर्भयत्वं, शङ्का त्रासे वितर्के च " इति विश्वलोचनः, सौष्ठवं भद्रभावः आतिशयितत्वं अतिशयो वा । अनवस्थिति: एकस्थले स्थित्यभाव:, चाञ्चल्यं इति यावत्, गौरवाधानं महत्तासंपादकम् | अविनयादि भूषणादिकं नास्ति तथापि तदुक्त्या अत्र विरोधः, एवकारोपादानेन रूपकं च ॥ एतच्छायः श्लोकः सुभाषितावल्यां भट्टपरिभूतस्य - " यद्दूरमुक्तविनयं यदनुष्ठितेच्छं यन्निर्दयं यदसमाधि यदस्तलजम् । यद्रागनिघ्नहृदयं यदपोढधैर्य, तत्तद्बभूव सुरतेषु गुणो, न दोषः ॥” इति । ] ३७६ ॥ [ केशग्रहणं - शिरोहृदयोपस्थानां त्रीणां कामस्थानानां आद्यशिरः स्थशशिकलापीडनाय यत् कचाकर्षणं, तत् न अन्यत्र इव अवमानं प्रत्युत अनुग्रहः कृपा एव तस्य नायिकाद्रावणफलत्वात् ॥ केशग्रहणप्रपञ्चः अनङ्गरङ्गं पञ्चसायकं च विहाय अन्यकामशास्त्रीयप्रबन्धेषु न दृष्टः इति सः प्रथमप्रबन्धात् उद्भियते" स्निग्धा घनाः कुञ्चितनीलवर्णाः केशाः प्रशस्तास्तरुणीजनानाम् । प्रेमप्रवृद्धयै विधिनैव मन्दं ग्राह्या नरैचुम्बनदानकाले || (९/३७ ) । चिकुरान् परिगृह्य चुम्बति करयुग्मेन पतिः प्रियां यदि । समहस्तकमित्यथैकतो यदि इस्तेन तरङ्गरङ्गकम् ॥ ( ३८ ) । परिवेष्ट्य करेण कुन्तलान्मदनार्तो यदि धारयेत् प्रियाम् । रतिकेलिकलापकोविदाः कथयन्तीति भुजङ्गवल्लिकम् ॥ ( ३९ ) । कर्णप्रदेशस्थकचान् विगृह्य परस्परं चुम्बति यत्र नारी । पतिश्च रागात्सुरतावतारे कामावतंसः स कचग्रहः स्यात् ॥ ( ४० ) ” इति ॥ उक्तं आर्यासप्तशत्यां अपि - " न च दूती, न च याच्ञा, न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com