________________
कुट्टनीमतम् । निर्दयमविरतवाञ्छं सस्तत्रपमव्यवस्थितावरणम् । उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥' ३७३ ।। इति दत्त्वाऽऽशिषमन्तर्निर्याते परिजने, तदङ्गेषु । विसम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम् ॥ ३७४ ॥
(विशेषकम् ) यदमन्दमन्मथोचितभनुरूपं यत्तथानुरागस्य ।
यद्यौवनाभिरामं, यच्च फलं जीवितव्यस्य ॥ ३७५ ॥ उक्तः । ] ॥ ३७२ ॥ [भवतोः अतिस्नेहाक्रान्तत्वात् धृष्टयोः उभयोः; निर्दयं अचिन्तितमार्दवं, तदुक्तं भारविणा-"आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥” (किरात० ९।४९) (वामः क्रूरः इत्यर्थः); अविरतवाञ्छं-न विरता विश्रान्ता समाप्तिं इता वाञ्छा स्पृहा यत्र तत्, अप्राप्ततृप्तिकं सत् पौन:पुन्येन अभिलष्यमाणं; स्रस्तत्र विगलितलजाभावं सधाष्टर्य इति यावत्, तच्च न मधुपानाद्युपायेन अपि तु एकीभूतहृदयत्वात् ; अव्यवस्थितावरण निललितवस्त्रादिसंनिवेशं, आवरणं केशभूषणादीनामुपलक्षणं; उपचीयमानरागं वर्धमानस्नेहं, " दुःखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । येन स्नेहप्रकर्षेण स राग इति कथ्यते ॥” इति रसाणवसुधाकरे, उपचीयमानेतिविशेषणेन च “ अचिरेणैव संसक्तश्चिरादपि न नश्यति । अतीव शोभते योऽसौ माञ्जिष्ठो राग उच्यते ॥” इति तस्य उत्तमरागत्वं ध्वनितम् । सततं निरन्तरं; सुरतं-प्रेक्षणभाषणाश्लेषणचुम्बनाद्यनेकभेदभिन्नं बाह्य, उत्तानकादिभेदेन षड्विधं आभ्यन्तरं च, इति द्विविधम् ।1 ॥ ३७३ ॥ [आशी: शुभाशंसनं, यथा शंगारतिलकभाणे-" विगलितत्रपयोः प्रणयार्द्रयोः शयनमेकमजस्रमुपेयुषोः। भगवतः कृपयैव मनोभुवो भवतु वामनिशं सुरतोत्सवः ॥” (१२९) इति । अन्तः गृहाभ्यन्तरे । विस्रम्भेण प्रणयेन, विविक्तः पवित्रः शुद्धः, रसः स्वादः, रसान्तरं वा यत्र तादृशः कुसुमायुधः मदनः, वृद्धिमाप; “ विस्रम्मः केलिकलहे विश्वासे प्रणये वधे । ” “ विविक्तं विजने पूतेऽप्यसंपृक्तविवेकिनि ।" " रस: स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । " इति च विश्वलोचनः । यथाऽऽह मृच्छकटिके-" विविक्तविश्रम्भरसो हि कामः ।" (८।३०) इति ॥ एतेन अयं उत्कृष्टः शङ्गाररसः, नात्र तदाभासलेशोऽपीति सूचितम् ॥1॥ ३७४॥[ इतः आर्याषोडश्या आशीरनुरूपं
३७३ ध्वस्तत्रपम (प) । ताचरणं (प. कापा) ३७५ मन्मथोदित ( काप यद्यौवनेऽभि (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com