________________
दामोदरगुप्तविरचितं
सुविहितसमुचितसंस्थितिरवनतशिरसा प्रणम्य तत्सख्या । इदमभिदधेऽतिननं सुन्दरसेनः शुभावसरे ॥ ३७० ॥ 'प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसन्दभैः । इयमास्ते हारलता, जीवनमस्यास्त्वदायत्तम् ।। ३७१ ॥ नियन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।
कार्यान्तरान्तरायैरनुपहतं यातु यौवनं युवयोः ॥ ३७२ ॥ हारलतासुन्दरसेनयोः समागमं वर्णयति आकृष्टेति । उत्कता उत्कण्ठितमनस्ता । स्वस्याः प्रेमा!ः नेत्रावलोकनैः आप्लावितस्य इव तस्य हारलता समादरवचनादिसम्मानक्रियाभि: स्वागतं चकार इत्यर्थः । उत्प्रेक्षालंकारः ॥ ] ३६९ ॥ [ शुभावसरे-सहजप्रेमाकृष्टया मनोरथविषयप्रियतमजनसमागमेन प्रशस्ते मङ्गले वा समये । ] ३७० ॥ [प्रियदर्शन इति संबोधनेन दर्शनमात्रेणैव सर्वसन्तापशान्तिः ध्वनिता । अत एव, सम्प्रति अलं तदनुभूतमदनव्यथाप्रकाशकदुःखज्ञापकवाक्यप्रपञ्चैः दुरुक्तैः, तथाकृते वृथा दुःखेन कालहरणमेव स्यात् इत्यर्थः।] [स्मरपीडितवचनचाटुसन्दभैंः' इति पाठे ] चाटवः प्रियोक्तयः, सन्दर्भः ग्रथनम् । [जीवनेत्यादिना उपक्षेप्यं सुन्दरसेनवियोगे हारलतायाः मरणं सूचितम् ॥ ] ३७१ ॥ [ इतः द्वयोः सखीकर्तृकस्वेष्टाशंसा । ] निर्यन्त्रकेलि: अप्रतिबन्धो विलासः [ विहारो वा,] [ सहजप्रेम नैसर्गिकी प्रीतिः, तल्लक्षणं तु—" दम्पत्योः सहजा तु या । सान्द्रा निगडभूता च प्रीतिर्नैसर्गिकी मता ॥" (४ । २६) इति अनङ्गरङ्गे। अर्थप्राप्तिसुहृद्गोष्ठीसेवाव्यापृतीत्यादीनि ] कार्यान्तराणि अन्यकार्याणि एव विघ्नाः तैः, [अनुपहतं अविच्छिन्नं, तथा च मुद्राराक्षसे" परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः । " (३ । ४) इति;] ['अपरिहृतं । इति पाठे] अत्याजित; [ अयं पाठः विरुद्धार्थकः इति त्याज्यः । यातु परिभुक्तं भवतु; यौवनं तारुण्य, रतिरसायनं वयः; यथा लक्षितं सहृदयलीलायां-" बाल्यानन्तरं गात्राणां वैपुल्यसौष्ठवविभक्तताविधायी स्फुटितदाडिमोपमः स्मरवसतिः अवस्थाभेदः यौवनम् ।" इति । युवयोः सर्वप्रकारेण सदृशयोः; तथा च मच्छकटिके “ सदृशजनसमाश्रयः कामः । "(८।३३)इति, अथवा परस्परदर्शनानुबद्धरतिपरिपोषयोः भवतोः। आशीरलंकारः, तल्लक्षणं काव्यादर्श “आशीर्नामाभिलषिते वस्तुन्याशंसनं" इति; अयं अलंकारः कैश्चित् नाङ्गीकृतः, कैश्चिच्च प्रेयोलंकारभेदत्वेन अन्यैः नाट्यालंकारत्वेन वा
३७० संविहित (प) । शुभेऽवसरे (प) ३७१ स्मरपीडावचनवाटुसंदर्भः (गो) स्मरपीडनव.."#ः (का) ३७२ आर्या' ( कारा)। परिहतं (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com