SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । भगिनि न मुञ्चति वेश्म क्षणमपि पटराजपुत्रोऽसौ । भनान्यनरावसरो, ननेनाधिष्ठितं तीर्थम् ' ॥ ३६७ ॥ इत्थंपाया वाचः शृण्वन्विटकुट्टनीसमुद्रीः । तं वेशसन्निवेशं पश्यन् प्रविवेश दारिकावेश्म ॥३६८॥(कुलकम्) आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः। तमुपागतमत्यर्थ हारलता पूजयामास ॥ ३६९॥ भक्षकोऽपि उरणो [ मेषः ] नैकमपि ऊर्णासूत्रं वितरति यथा, तथा वासुदेवभट्टसूनु: केवलं स्वार्थमात्रप्रसक्तो न किञ्चिदपि वितरति, सुरतसेनायाः वसनादिकं नाशयति मात्रम् । तथा च न आसक्तिः तत्र विधेया इत्यर्थः; लोकोक्तिरूपेणेत्थम् उक्तिः, [ तेन अत्र लोकोक्तिरलंकारः, तल्लक्षणं तु "लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते ।" इति कुवलयानन्दे । लोकोक्तिस्तु आभाणकः 'कहावत' इति भाषायाम् । अत्र च उपमानोपमेयवाक्ययोः दानाभावरूपः समानो धर्म:पृथक् निर्दिष्टः, तेन प्रतिवस्तूपमाऽपि।] ॥३६६॥ [एका गणिका अपरां प्रति कामुकशाठ्यं आक्रोशेन निरूपयति । ] भगिनि इत्यादि । [ भनान्यनरावसरः अदत्तापरकामुकप्रवेशावसरः । अत्र ‘भमान्यतरासङ्गो' इति पाठे भग्नान्यावतरणासङ्गः इत्यर्थः, तरः अवतारः प्रवेशः । 'नगेनाधिष्ठितं यथा तीर्थ' इति पाठे ] यथा नमकः [ विवस्रो भिक्षुविशेष: 'बावो । इति भाषायां, ] तीर्थ [पुण्यक्षेत्रं] अपैतृकमपि अधिष्ठितिमात्रेण स्वीयं अभिमन्यते, न च तत्र अन्यस्मै स्थानावकाशं ददाति, तथा स मद्गृहं स्वीयं अभिमन्यमानः वार्यमाणोऽपि न मुञ्चति [तिरस्कृतोऽपि न त्यजति निरन्तरस्वसान्निध्येन च अन्यस्मै प्रवेश न ददाति इत्यर्थः । [मूलपाठे पूर्ववत् लोकोक्तिप्रतिवस्तूपमालङ्कारयोः संसृष्टिः ।] [ तथा च समयमातृकायां-" न भवत्येव धूर्तस्य वेश्यावश्मन्यमातृके । चुलीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥” (१।४३) । अत एव प्रस्तुते मातरं मुक्त्वा अन्यां प्रति उक्तिः भगिनीत्यादिना] ॥३६७॥ उद्गीर्णा उद्गारिताः । [न च समुद्गीर्णा इत्यस्य ग्राम्यत्वं, तदुक्तं " निष्ठयूतोद्गीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयात् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥” इति ।] [ वेशसन्निवेशः–वेशानां वेश्यागृहाणां, " नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च ।" इति रभसः, संनिवेश: रचनाप्रकारः यत्र सः, वेश्यावीथिका । ] दारिका बाला, बालवेश्या हारलता इत्यर्थः ॥ ३६८ ॥ [इत: षड्भिः ३६७ क्षणमपि मे कपटराज (प)। भग्नान्यतरासङ्गो (गो. का)। ष्ठितं यथा तीर्थ (गो.) ३६८ दयितिकावेश्म (प) ३६९ गतमत्यन्तं ( गो २ का ) गतमभ्यर्ण (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy