________________
दामोदरगुप्तविरचितं
अभिराम कनकभाटी प्रथममियं गृह्यते, समुत्पन्ने । स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३६३ ॥ ग्रहणकमर्पय तावद्यदि कौतुकमुपरि चन्द्रलेखायाः। निर्वर्तितकर्तव्यो दास्यसि किञ्चिद्यथाभिमतम् ॥ ३६४ ॥ न परमदाता मातः सूनुरसौ वासुदेवभट्टस्य । निर्लज्जः शठवृत्तिः पुनःपुनर्यमाणोऽपि ॥ ३६५ ॥ क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः।
न ददात्येकामूर्णामुरणः परमत्ति कार्पासम् ॥३६६॥ (युग्मम् ) वेश्यादारिकाविशेष प्रति उक्तिरियम् । उच्छूनं शोथवत् ।] [ कन्दुकक्रीडाया मनोहारि वर्णनं दशकुमारचरिते षष्ठ उच्छासे द्रष्टव्यम् । तस्या विस्तरस्तु कन्दुकतन्त्रे । ] ॥ ३६२ ॥ [ द्वाभ्यां मातु: प्रथमकामुकं प्रति उक्तिविशेषमाह । कनकमयी महती भाटी गृह्यते तत्र दुःखितमनसा न भाव्यं, पश्चात् समुत्पन्ने स्नेहे विसंभे समारूढे, त्वं तु तस्या जिवितस्यापि] प्रभवसि प्रभु: भवसि [भविष्यसि इत्यर्थः, किमु तत्र वाच्यं तस्याः अन्येषां क्षुद्रधनानां इति बहुमूल्यग्रहणाय छलोक्तिः । ] ॥ ३६३ ॥ ग्रहणकं पुरस्कारद्रव्यम् [रतमूल्यं वा,] [ तावत् आदौ एव, कौतुकं कुतूहलं तत्समागमस्य इति, यद्वा अभिलाषः । निर्वर्तितकर्तव्यः संप्रातसुरतः, किञ्चित् उपदारूपं 'बक्षीस , इति भाषायाम् , यथाभिमतं स्वेच्छानुरूपम् । इदमपि अधिकग्रहणोपायः ।] ॥ ३६४ ॥ [ त्रिभिः वैशिकशठस्य अधमवैशिकस्य वा आचरणं वक्ति, तत्र युग्मकेन चेटी मातरं प्रति तच्छाध्यं प्रकाशयति नेति । न परमदाता–परमस्य उत्कृष्टस्य दाता न-दातव्यमिति तुच्छमेव ददाति इत्यर्थः, अत: वारंवारं निवार्यमाणोऽपि निम्रपः कुटिलवर्तन: स कुचादिस्पर्शनाद्यर्थ सुरतसेनाया: वस्त्राणि बलात् समाकर्षति, अतः एवंविधः स केनापि प्रकारेण निष्कास्यः इति भावः । ] [ शठवृत्तिः " वाचैव मधुरो यस्तु कर्मणा नोपपादयेत् । योषितां कञ्चिदप्यर्थ स शठः परिकीर्तितः ॥" ( २३ । २९८ ) इति नाट्यशास्त्रे । निर्लजस्तु-" वार्यमाणो दृढतरं यो नारीमुपसप॑ति । सचिह्नः सापराधश्च स निर्लज इति स्मृतः ॥" ( २३ । ३०१) इत्यपि तत्रैव।] ॥३६५॥ [तन्निर्लजत्वं प्रकाशयति क्षपयतीति। न ददातीति। [कार्पासं कर्पासं इत्यपि कर्पासबीजं ' कपासीआ' इति भाषायां इत्यर्थः । ] तथा च कर्पास
३६३ डोंव भाटी (प) । समुत्पन्ना (4)३६४ चन्द्रसेनायाः (प) । दास्यसि पश्चायं (प) ३६५ सूनुरयं नगररोटभट्टस्य । "पुनरेति निवार्यमाणोपि (प) ३६६ कर्पासं (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com