________________
दामोदरगुप्तविरचितं गायन्मात्रागाथा द्विपदिकया सौष्ठवेन विट एकः । बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥ ३३९ ॥ कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया । विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३४०॥ त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जाताऽसि । इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥ ३४१॥ उषितामपरेण समं दृद्धविटानां पुरः पराजित्य । त्याजयति स्म भुजङ्गः कश्चिद्रणिकां द्विगुणभाटीम् ॥ ३४२ ॥
व्यवहारप्रदर्शनेन वशयितुं प्रसादयामास । [यद्वा, एकेन केनचित्-यत्र स्वमनो लग्नं तेन त्वहृदयाधिष्ठितेन; कासुचित् वेश्यासु दृष्टमिदं यत् नानाकामिभ्यः धनं संगृह्य ताः तत् स्वाभिमतस्य एकस्य अर्थ व्ययीकुर्वन्ति इति; इति हेतौ, अपरान् विहाय धनवन्तं श्रीमन्तमेव इत्यर्थः, आवर्जयति स्म वशीभूतं अकरोत् ।] ॥ ३३८ ॥ [इतः चतुर्भिः विटवृत्तानि आह गायन् इति । मात्रागाथा:-गाथा गीतसामान्येऽपि, अतः मात्रागाथाः मात्रागणघटिता गाथाः, आर्याः इत्यर्थः; द्विपंदिकया द्विपदिकाख्यगीत्या तत्पद्धत्या इत्यर्थः, “ तल्लक्षणं चाह भगवान् भरतमुनि:-'शुद्धा खण्डा च मात्रा च संपूर्णेति चतुर्विधा । द्विपदी करणाख्येन तालेन परिगीयते । ' इति " इति विक्रमोर्वशीयप्रकाशिकायां रङ्गनाथः । विट:-वर्णितश्चैतादृश: कलाविलासे क्षेमेन्द्रेण-" भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् । अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥" (९।३९) इति । दास्याः वेश्यायाः, “ दासी बाणा(ला?)भुजिष्ययोः” इति मेदिनी, भुजिष्या तु वेश्या इति पूर्व (३३३ श्लो. टि.) उक्तमेव । अत्रेदं भाति भुजिष्याशब्दस्य दासीवेश्योभयपरत्वात् दास्यर्थवाचकशब्दाः वेश्यावाचका अपि व्यवहारार्थ कोषविशेषेषु च संग्रहीताः।] विकृतिः अङ्गाभिनयादिचेष्टा, ['चाळा ' इति भाषायाम् । ] ॥ ३३९ ॥ [ कश्चित् दरिद्रीभूतः कामी वेश्याः धनिभिः संयोज्य विनिमये तया रतं विनामूल्यं प्राप्नोति स्म इति भावः । “ आराधनं तु पूजायां पाकप्रापणयोरपि ।" इति विश्वलोचनः । ॥३४०॥[उज्झितं त्यक्तम् । ] ढौकः [गतिः, तस्याः प्राप्तिः,] परिसरः सान्निध्यं समागमादिकमिति यावत् ॥ ३४१ ॥ [वारवञ्चनकुपितः कश्चित् भुजङ्गः कामी एकां स्वेन सङ्केतं कृत्वा आदौ एव मूल्यं गृहीत्वा
___३३९ द्विपथकमथ (प) ३४२ योजयति ( गो २ कापा)। मुजंग (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com