________________
कुट्टनीमतम् । अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या। समुवाच कुट्टनी ब्रज कल्लोलाकल्पदेहेति ॥ ३३४ ॥ प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् । अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ।। ३३५ ॥ अन्या कामिस्पर्धावर्धितभाटी समुत्सुका चण्डी । सौभाग्यगर्वदर्प समुवाह विलासिनीमध्ये ॥ ३३६ ॥ एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः काऽपि । सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥ ३३७ ॥ धनमाहृत्य बहुभ्यो भुज्यत एकेन केनचित्सार्धम् ।
इति धनवन्तं कामिनमावर्जयति स्म काऽपि वारवधूः ॥ ३३८ ॥ वेश्या, “ भुजिष्या प्रेष्यमात्रे स्यात् स्वतन्त्रायामपि स्मृता।" इति धरणिः । तदुक्तं" उत्कोच-पारितोषक-भाट-सुभाषित-परार्थ-चौर्याशा: । तत्क्षणमेव ग्राह्याः षडन्यकाले न लभ्यन्ते ॥” इति ।] ॥३३३॥ [अन्तः स्थित: कामी यत्र तत् गृहं तस्य । ] कल्लोलवत् मिहाजलतरङ्गवत् ] स्वच्छः आकल्पो वेषः तथा देहो यस्याः सा धृतश्वेताम्बरा इत्यर्थः । [ यद्वा, कल्लोल इति संबोधनं, हे शत्रो इत्यर्थः; “ कल्लोल: ख्यात उल्लोलप्रमोदपरिपन्थिषु ।" इति विश्वलोचने; अकल्पदेह इत्यपि तस्यैव संबुद्धिः, अकल्पः स्वकार्ये असमर्थः देहो यस्य सः, क्लीव इति यावत् ; " अथ कल्पः स्यान्न्याये देवद्रुमे विधौ ।... सामर्थ्य वर्णने तथा।" इति केशवः। 1॥३३४॥[प्रकटितेति । स्वशरीरे बहूनि दशननखक्षतानि दर्शयन्ती सती, ततः स्वस्याः केनचित् राजपुत्रेण महापुरुषेण साकं रतिरूपं सुरतरूपं युद्धं, " मोहनं मदनयुद्धमूचिरे " इति रतिरहस्ये (१०५२), तत् प्रत्याययन्ती, यतः क्षत्रिया एव निर्दयाः अधिकप्रगल्भा वा भवन्ति इति, स्वस्याः अन्याभ्यः सामान्यपुरुषसेविताभ्यः सौभाग्यं भाग्योत्कर्ष आततान विस्तारयामास । ] ॥ ३३५ ।। [ समुत्सुका अर्थग्रहणे त्वरावती इत्यर्थः, चण्डी कोपनशीला च, ततः चातुर्येण उत्पादिता या कामिनोः ] स्पर्धा उत्कर्षेच्छया संघर्षः, [तया इत्यादि,] भाटी मूल्यं, [ विलासिनी वेश्या।] ॥ ३३६ ॥ [ अनुबन्धः प्रवृत्तस्य एकस्य अनु पश्चात् अपरस्य प्रवर्तनम् । सम्भ्रमतः भयात् एकस्यापि वधस्य । “सम्भ्रमस्त्वादरे पुंसि संवेगे साध्वसेऽपि च ।" इति विश्वलोचने । ] ॥ ३३७ ॥ आवर्जयति स्म धनमाहृत्य इत्यादिनय
३३६ समुच्छ्रिता (कापा)। काखेडा (प) ३३७ बन्धे (गो. का)। कुटिनी (प) ३३८ स्म वार (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com