________________
दामोदरगुप्तविरचितं
एवमुपश्रुत्य वचः समुवाच पुरन्दरात्मजः सुहृदम् । 'मम हृदयादिव कृष्ट्वा गीतमिदं साधुनाऽनेन ॥ ३२९ ॥ तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।
आश्वासयितुं यामो, गुणपालित किं विकल्पितैर्बहुभिः॥३३०॥ __ अथ तत्र काऽपि गणिकाऽगणयन्ती परिचितं हृतद्रविणम् । प्रविशन्तमेव मन्दिरमीयाव्याजेन निरुरोध ॥ ३३१ ॥ काचिद्वश्वकदत्तं लुण्डीकृतजीणवसनमवलोक्य । वेश्या विषीदति स्म क्षपाक्षये व्यर्थकर्तव्या ॥ ३३२ ॥ दैवस्मृत्याऽऽपतितं दृष्टिपथं भगमूल्यविटमेका ।
ज्वलिता रुषा भुजिष्या जग्राह जयेन धावित्वा ॥ ३३३ ॥ ॥ ३२८ ॥[" महासत्त्वानां दैववशात् विकारोदयेऽपि परप्रेरणया प्रथमप्रवृत्तिः किमपि गौरवं आविष्करोति । " इति प्रकृते गीत्युपश्रुत्या नायकप्रवृत्तिमाह एवमिति । इदं मम हृदयात् कृष्वा इव अनेन साधुना गीतम् इत्यन्वयः । साधुः इति उक्तिः तस्य स्वमतानुकूलत्वात् । यथा हारलता स्वसख्या वेश्याधर्म बोधिताऽपि न तदङ्गीचकार, तथा नायकोऽपि सुहृदा वेश्याकूटचरितं अवबोधितोऽपि (३०२-३२४) कामाकृष्टः सहजप्रेमवश: उपश्रुत्याऽनुमोदित: न तत् स्वीचकार इति भावः ] ॥३२९॥ [ विकलां व्याकुलां, हरिणशावतरलाक्षी इत्यत्र वाचकलुप्तोपमा । तरलं लोलं चञ्चलम् । विकल्पितैः ऊहापोहैः । ] ॥३३०॥ [ एवं निर्णीय सुहृदा सह हारलतामन्दिरं प्रति प्रस्थितेन सुन्दरसेनेन वेश्यावाटे यद्यत् दृष्टं श्रुतं च तत् प्रघट्टकेन वर्णयति अथेति । इतः ३४२ आर्या यावत् वेश्याविटकर्तृकाणि विविधदृश्यानि आह ॥ अथ आरम्भे अनन्तरं वा । अगणयन्ती अनादरं कुर्वन्ती । ईर्ष्या अक्षान्तिः परोत्कर्षासहिष्णुत्वं, तस्य व्याजेन छलेन, प्रथमं आगतः कामुकः त्वां दृष्ट्वा तव ईर्ष्या द्वेषं वा करिष्यतीति रूपेण मिथ्याभाषणादिना । ] ॥ ३३१ ॥ लुण्डीकृतं कन्दुकाकारेण दत्तम् , तथा च तदानीमनुद्घाटितत्वात् अज्ञातसारम् इत्यर्थः । ] क्षपाक्षये रात्र्यपगमे । विषाद: "प्रारब्धकार्यासिद्धयादेविषादः सत्त्वसंक्षयः । " इति लक्षितः। ] ॥३३२॥ [ दैवस्मृत्या विधे: आभिमुख्येन दिष्टया। भग्नमूल्यः भग्नं विनाशितं अदानात् मूल्यं वेतनं पणं वा येन सः, विट: धूर्तः । भुजिष्या
३२९ गीतिरिय केनचिद्गीता (कापा) ३३० तदसमबाणसमर्पितहा (कापा) ३३२ दत्तं पुजीकृत (प. का)। वृत्तकर्तव्या (प. गो २) ३३३ देव ( गो)। विटमेकम् (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com