SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ७२ कुट्टनीमतम्। सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्गन्यः । प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥ ३२८ ॥ पुनः । व्याचष्टे हर्षनन्दीम, विलासवति नप् पुनः ।। " इति केशवः। केचित्तु 'लडहः' अयं मनोहरार्थ: देश्यः शब्दः, देश्यस्तु विशिष्टदेशे भवः, लटभः इति संस्कृतम् इति । "लडहः सुकुमारः, सुकुमारशब्दस्य प्राकृते लडहादेशः” इति काव्यप्रकाशटीकासुधासागरे । अतः केषाञ्चिन्मते लडहादिदेश्यशब्दप्रयोगे देश्याख्यः पददोषः । तथाहि सरस्वतीकण्ठाभरणे-" तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् ॥ " ( १।१४ ) यथा'गल्लौ लावण्यतल्लौ ते, लडहौ मडहौ भुजौ । नेत्रे वोसट्टकन्दोडमोट्टायितसखे सखि ॥ ॥ इति । अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यमित्यर्थः । “ व्युत्पन्नानां अन्यादृशी च्छाया, देश्यानां च न तादृशी, इति देश्यवेद्यपदसमभिव्याहारे प्रायेण छायावैरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिकं दोषबीजम् । तलं अल्पसरः, मडहं कृशं, वोसट्टं विकसितं, कन्दोर्ट नीलोत्पलं, मोट्टायितं विलास: ।” इति तट्टीकायां रत्नधरः। तदुक्तं रुद्रटेनापि-" प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्मडहादि कथंचन रूढिरिति संस्कृते रचयेत् ॥” (काव्यालंकारे ६।२७) इति ॥ एतादृशपदप्रयोगाणां अदुष्टत्वमपि तत्रैव सरस्वतीकण्ठाभरणे समाहितं, यथा" यदव्युत्पत्तिमद्देश्यमिति पूर्व निरूपितम् । महाकविनिबद्धं सत्तदप्यत्र गुणीभवेत् ॥" (१।१०४) इति । तथा च वामनीयकाव्यालंकारसूत्रे-“ अतिप्रयुक्तं देशभाषापदम् ॥ " (५।१।१३) इति । एवंरीत्या हर्षचरिते सप्तमोच्छासे-". . 'तुन्दिलचुन्दीजनजनितजनहासे” इत्यत्र कुट्टन्यर्थकस्य चुन्दीशब्दस्य, स्तुतिकुसुमाञ्जलौ च" काला यथोक्तिरमृदुः क्षतसेवकाला । " (३०५६) इत्यत्र अपवादार्थकस्य आलाशदस्य, अन्यत्रापि लहर्यादितत्तद्देश्यशब्दप्रयोगाणामदुष्टत्वं बोध्यम् ॥] नितम्बिन्यः तासां, जनस्य समूहस्य, [यद्वा नितम्बिन्य एव जनः लोकः, “ जनो लोके महर्लोकात्परे लोके च पामरे । ” इति विश्वलोचने, तस्य ] संभोगसुखेन, याति अतिकामति ॥ ३२७ ॥ सुमनोमार्गणः [ पुष्पबाण: ] कामः । [प्रमदा: सामान्ये बहुवचनम् । यत् कामपीडिता नत्वर्थाद्यर्थिनी प्रणयिनी प्रमदा पुरुषविशेषं कामयेत् तत् तस्य कस्यापि महतः पुण्यस्यैव फलं इति शेयं इति भावः । तथा च मुकुन्दानन्दभाणे-" परिरम्भकेलिपरिहासभाषणै शमादृतोऽपि न वशं समेति यः । स वधूननोऽपि यतते यदि स्वयंग्रहणाय तत्पुरुषपुण्यगौरवम् ॥” ( १९४ ) इति । ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy