________________
दामोदरगुप्तविरचितं सादरमाकृष्य चिरं कुसुमस्तबकं च नरविशेषं च । रिक्तीकर्तुं निपुणाः क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१९ ॥ परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।
चुम्बकपाषाणशिला रूपाजीवाश्च कर्षन्ति ॥ ३२०॥ संग्रहणशीलाः; दुर्ग्रहाश्च वशीकर्तुमशक्या: भावचरितादिभि: ज्ञातुमशक्या वा इति ॥ अत्र श्लेषोपमा॥] [अस्या आर्याया: मुक्तकत्वे-प्रकृतय इव गणिका: श्लेषगर्भत्वात् गणिका इव प्रकृतयः इति व्यत्ययेन पठने दण्डिमतेन अन्योन्योपमा, मम्मटमतेन उपमेयोपमा च व्यङ्गया बोध्या ] ॥ ३१८ ॥ रिक्तीकर्तु नीरसतायै दारिद्रयाय च, [न तु स्नेहेन आनन्दाय, चुम्बन्तीत्यन्वयः]। [निपुणाः दक्षाः, ] क्षुद्राः मधुमक्षिकाः, क्षुद्राः वेश्याः; “क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ।" इति अमरः । [अत्र प्रस्तुतानां वेश्यानां अप्रस्तुतानां मधुमक्षिकाणां च रिक्तीकरणायैव चुम्बनक्रियारूपैकधर्मोक्तेः दीपकालंकारः, केवलं प्रस्तुतानां अप्रस्तुतानां वा तादृशोक्तौ तुल्ययोगिता; एतयोः औपम्यं गम्यम् , " वदन्ति वर्ष्यावानां धर्मेक्यं दीपकं बुधाः ।" इति दीपकलक्षणं कुवलयानन्दे । ] ॥ ३१९ ॥ परमार्थे परिणामे वस्तुतश्व, कठोराः निघृणाः कठिनाश्च । [विषयः इन्द्रियार्थः पदार्थविशेषश्च । चुम्बकपाषाणशिला लोहचुम्बक इति ख्यातो धातुविशेषः । ] रूपाजीवा: [ रूपमेव आजीवः जीवितसाधनं यासां ताः ] वेश्याः । [अत्र विरोधानुप्राणितः दीपकालंकारः।] [वासवदत्तायां दूतीसंवादे तु प्रियतमं प्रति संवाद:-" प्रस्तर इव क्रूरोऽसि, न चाकर्षकचुम्बकद्राव. केष्वेकोऽसि, भ्रामकोऽसि परं कितव ।" इति । तत्र तट्टीकाकाराणामाशयो यथाआकर्षकचुम्बकद्रावकभ्रामकाः शिलाविशेषाः नायकविशेषाश्च । तत्र शिलाविशेषेषु स आकर्षक: यत्सम्बन्धात् प्रत्युप्तमपि लोहं निःसरति, स चुम्बकः यत्सम्बन्धात् लोहं उपगच्छति सूर्यकान्तो मणिर्वा, स द्रावकः यत्सम्बन्धात् लोहं द्रवति चन्द्रकान्तो मणिर्वा, भ्रामकः सः यत्सम्बन्धात् लोहं भ्रमति 'गुरिया' इति ख्यातः ॥ नायकविशेषेषु तु-" दूरादाकर्षणे शक्तो यः स आकर्षकः स्मृतः । सर्वेषां स्पर्शलोलत्वं कुरुते यः स चुम्बकः ॥ कृतार्थयति यो दृष्टया स द्रावक इति स्मृतः । भ्रामको मधुराभाष: संस्तवद्वेषभाजनम् ॥ इति भोजः ।" इति । यद्वा, कामकलाकौशलेन यो नारीमाकर्षति स आकर्षकः, रतिकौशलेन यश्चम्बति स चुम्बकः, ओषधिविशेषयोगेन कुचमर्दनेन वा यः कठिनकामिनी द्रावयति स द्रावकः, अन्यासक्तो योऽन्यनारी भ्रामयति प्रतारयति स भ्रामकः, इति दर्पणे च शिवराम: ॥ अत्र अयं विशेषो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com